उत्तराखण्डशिष्टमण्डलेन प्रारब्धं पत्तने सम्भाषणं।
शिवमोग्गा (कर्नाटक), २८ जुलै २०२५ — कर्नाटकस्य शिवमोग्गा विमानपत्तने अद्य एकं विलक्षणं दृश्यं दृष्टम्। बैंगलूरुगमनसमये वायुयानस्य विलम्बेन यात्रिकाः प्रतीक्षायां स्थिताः सन्तः समयस्य सदुपयोगं कृत्वा संस्कृतसंभाषणेन आकृष्टाः अभवन्।
“संस्कृतं सर्वत्र” इति भावनया प्रेरितं सम्भाषणं उत्तराखण्डसंस्कृतअकादम्याः शोधाधिकारिण: डा. हरीशगुरुरानीवर्यस्य नेतृत्वे सम्पन्नम्। तेन यात्रिकेभ्यः सरलया रमणीयया च संस्कृतभाषया सम्भाषणं पाठितम्।
विमानपत्तनपरिसरे एव सर्वे यात्रिकाः संस्कृतभाषां किञ्चित् अभ्यासं कृत्वा तस्याः सौन्दर्यं अनुभूतवन्तः। अवगच्छन्ति च — संस्कृतं न केवलं शास्त्रीयवाङ्मये अस्ति, अपितु जीवनस्य सर्वत्र उपयोग्या अपि। सर्वै: परिचयं एकवारम् श्रुत्वा एव स्वपरिचयं संस्कृतेन दत्तं । सम्भाषणस्यप्रथमपरिचय: संस्कृतेन कथनं सर्वेषां कृते अतिसरलम् आसीत् सर्वे अत्य आश्चर्यम् अनुभूतवन्त: यत् बहुसरलतया संस्कृतम् अस्माकं मुखे आगतम् ।
विशेषं यत् — शिष्टमण्डलं ‘मुत्तुरुसंस्कृतग्रामस्य विकासप्रतिदर्शम्’ उत्तराखण्डे संस्कृतग्रामविकासयोजनायै द्रष्टुं प्राप्तम् आसीत् तदैव विमानविलम्बे सति अवसरोयं समुत्पन्न: ।
संस्कृतनिदेशकः डा. आनन्दभारद्वाजमहोदयः मार्गदर्शनं कृतवान् च पुन: शोधाधिकारिणा सम्भाषणं प्रारब्धं। अथ किं
विलम्बेन यः समयः नष्टः स्यात्, सः संस्कृतभाषायाः माधुर्येण समृद्धः अभवत्। यात्रिकाः उल्लसिताः — “एषा अद्भुता अनुभूति:। कदापि न विस्मरिष्यामः संस्कृतपाठं विमानपत्तने।”
संस्कृतं जीवनस्य मार्गे स्वाभाविकतया प्रवहति — एषा शिवमोग्गायाः साक्षात् प्रस्तुतिरेव।











