उत्तराखण्ड प्रचण्डवृष्टि- क्षीरगंगा आपदा

२०२५ अगस्तमासस्य षष्ठे दिने (बुधवासरे) धाराल्यां आपत्सेलायाः पीडितान् अन्विष्य, आपत्काल-सैनिकैः पुनः प्रयासः आरब्धः। मुख्यमन्त्री धामी उक्तवान् यत्, न्यूनातिन्यूनं १९० जनाः ध्वंसावशेषेभ्यः उद्धृताः।

उत्तराखण्ड्-राज्यस्य उत्तरकाशी-मण्डले हर्षिल्-क्षेत्रस्य धराली-ग्रामे मेघस्फोटात् खीर्गङ्गानद्याः आकस्मिकजलप्लावनेन व्यापकं विनाशम् अभवत्। मण्डल-आपत्कालीन-परिचालन केन्द्रानुसारं, धराली-विपणि-क्षेत्रे महता जलप्रहारेण भवनानां, यात्रि-स्थानानां, आपणानां च महती क्षतिः अभवत्। सेना, राष्ट्रिय-विपद्-प्रतिक्रिया-बलम्, राज्य-विपद्-प्रतिक्रिया-बलम्, मण्डल-प्रशासनं, अन्ये च सम्बद्ध-दलानि च साहाय्योद्धार कार्येषु सक्रियतया संलग्नानि सन्ति। मण्डल-दंडाधिकारिणः प्रशान्त-आर्यः अवदत् यत् प्रारम्भिकसूचनानां आधारेण न्यूनातिन्यूनं चत्वारः जनाः मृताः, अनेके जनाः लुप्ताः च इति कथ्यते। राज्यस्य प्रशासनं पूर्णतया जागरूकम् अस्ति, प्रभावितनागरिकाणां कृते सर्वान् सम्भवान् साहाय्यान् च प्रददाति। राष्ट्रपतिः द्रौपदी मुर्मू इत्येषा मेघस्फोटस्य दुःखदघटनायां पीडितानां परिवारान् प्रति शोकं प्रकटितवती। प्रधानमन्त्रिणा नरेन्द्रमोदिना, गृहमन्त्रिणा अमितशाहेन च घटनायाः विषये उत्तराखण्डस्य मुख्यमन्त्रिणा सह वार्तालापं कृत्वा परिस्थितिः समीक्षिता।
खीर ग‌ङ्गा-नद्यां दुरापन्नस्य प्रलयङ्करस्य तोयप्लवस्य अनन्तरम् धरालीति क्षेत्रे युद्धस्तरे जनानां रक्षोद्धार-कार्यं प्रवर्ततेतराम्। सैन्यबलम् राष्ट्रिय-आपदा-मोचनबलं, राज्य-आपदा-मोचनवलं, जनपद-प्रशासनम्, अन्यानि च उद्धारदलानि निरंतरं कार्यरतानि सन्ति। अत्रान्तरे, मुख्यमन्त्री पुष्कर-सिंह-धामी आपदा-प्रभावित क्षेत्राणां जनैः साकं संभाषणं कृत्वा तेषां कुशलक्षेमं ज्ञातवान्। सहैव आपदा-प्रभावित-परिवारेभ्यः सर्व-सम्भव-सहायता-प्रदानमपि आश्वासितवान्। सहैव उत्तरकाशी-स्थिते आपदा-नियन्त्रण-कक्षे जनोद्धार-सुरक्षा-कार्याणां विस्तृत-समीक्षामपि व्यदधात्। असौ तत्र सुरक्षोद्धार-कार्येषु नियुक्तैः कार्मिकैः सकमपि सम्भाषणम् आचरितवान्। मुख्यमंत्री प्रावोचत् यत् राज्य -सर्वकारस्य सर्वोच्च प्राथमिकता इदं सुनिश्चितीकरणम् अस्ति यत् सर्वेभ्यः प्रभावितेभ्यः जनेभ्यः उद्धार-साहाय्यं शीघ्रमेव प्राप्तम्भवेत्। अथ च शीघ्राति-शीघ्रं सामान्य स्थितिः प्रवर्तिता भवेत्। अनेन प्रशासनं निर्दिष्टम् अस्ति यत् कश्चिदपि प्रभावितः परिवारः सहायताभिः वंचितः न भवेत्। मुख्यमन्त्री प्रावोचत् यत् सैन्य-बलेन प्रायः नवत्युत्तर-एक-शतं जनाः उद्धार-पूर्वकं सुरक्षित-स्थानेषु प्रापिताः सन्ति।
प्रधानमन्त्री श्रीनरेन्द्र मोदी अपि विधीयमानानां जनोद्धार-प्रयासानां विषये मुख्यमन्त्रिणा धामि-वर्येण समं दौरभाषिकं सम्भाषणम् आचरितवान्। अथ च केन्द्र-सर्वकार-पक्षतः सर्वसम्भव-सहायता-प्रदानमपि आश्वामितवान्। अत्रान्तरे, ऋतु-विज्ञान-विभागेन आगामि-दिनेषु समस्ते राज्ये आनारतम् अतिवृष्टेः अनुमानं कृतम् अस्ति। देहरादून सहितं हरिद्वार, हल्द्वानी, उधमसिंहनगर, मुक्तेश्वरे च अतिवृष्टि भवति। देहरादूननगरे वर्षायाः कीर्तिमानः भङ्गः, पञ्च गृहाणि क्षतिग्रस्ताः। राजधानी देहरादूननगरे गतमङ्गलवासरे रात्रौ आरब्धा प्रचण्डवृष्टिः बुधवासरस्य प्रातःपर्यन्तं प्रचलति स्म, यस्मात् कारणात् नगरस्य नद्यः क्रुद्धरूपं प्राप्तवन्तः। मालदेवताक्षेत्रे एकस्मिन् रात्रौ २५२ मि.मी.वृष्टिः अभवत्, या विगत ७४ वर्षेषु सर्वाधिकं वर्षा अभवत् । अतिवृष्ट्या नगरात् ग्रामे जीवनं बहु प्रभावितम् अस्ति । नगरस्य अनेकस्थानेषु मलिनतायाः अधः मार्गाः निहिताः, गृहेषु, आपणानां स्थानेषु च जलं प्रविश्य जीवनं बाधितं च अस्ति।