जन्माष्टमी उत्सवः

अस्मिन् वर्षे कदा कृष्णजन्माष्टमी उत्सवः भविष्यति?

वैदिकपञ्चाङ्गानुसारम्, पञ्चदशे अगस्तमासे रात्रौ एकादशवादने एकोनपञ्चाशन्मिनिट् यामे भाद्रपदमासस्य कृष्णपक्षे अष्टमी तिथि आरभ्यते। षोडशे अगस्तमासे रात्रौ नववादने चतुस्त्रिंशन्मिनिट् यामे अष्टमी तिथिः समाप्ता भविष्यति।

श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । कृष्णस्तु भगवान् स्वयम्, दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः, कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः । स्मृतिषु, पुराणेषु, इतिहासेषु, काव्येषु, प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः तं देवतानां परमं च दैवतम् इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-पशु-पक्षि-वृक्ष-वनस्पत्यादीन् अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, महाभारतस्य सूत्रधारः, महावीरः, धर्मप्रभुः, धर्मनिरतानां पाण्डवानां बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, गीतोपदेशं कृतवान् योगाचार्यः श्रीकृष्णः ।
श्रीकृष्णः श्रावणमासे जातः इति कुत्रचित्, भाद्रपदमासे इति अन्यत्र, सिंहमासे इति अपरत्र उक्तम् अस्ति ।
भाद्रपदमासस्य कृष्णपक्षस्य अर्ध-रात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणी-नक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम् इति श्रीकृष्णः एव अवदत् इति भविष्योत्तरपुराणं वदति ।
अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥ इति हरिवंशे उक्तम् अस्ति ।
प्राजपत्येन संयुक्ता अष्टमी सा यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ।। इति वदति स्कान्दपुराणम् ।
अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति । जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्रीमद्भागवतस्य, हरिवंशस्य, विष्णुपुराणस्य, भगवद्गीतायाः वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, क्षीरान्नं, परमान्नं, गुडयुक्तपृथुकं, नवनीतं, शुण्ठिगुडमिश्रणं च समर्पयन्ति । वेदमन्त्रैः, शास्त्रवाक्यैः, इतिहास-पुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।