वैदिकपञ्चाङ्गानुसारम्, पञ्चदशे अगस्तमासे रात्रौ एकादशवादने एकोनपञ्चाशन्मिनिट् यामे भाद्रपदमासस्य कृष्णपक्षे अष्टमी तिथि आरभ्यते। षोडशे अगस्तमासे रात्रौ नववादने चतुस्त्रिंशन्मिनिट् यामे अष्टमी तिथिः समाप्ता भविष्यति।
श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । कृष्णस्तु भगवान् स्वयम्, दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः, कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः । स्मृतिषु, पुराणेषु, इतिहासेषु, काव्येषु, प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः तं देवतानां परमं च दैवतम् इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-पशु-पक्षि-वृक्ष-वनस्पत्यादीन् अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, महाभारतस्य सूत्रधारः, महावीरः, धर्मप्रभुः, धर्मनिरतानां पाण्डवानां बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, गीतोपदेशं कृतवान् योगाचार्यः श्रीकृष्णः ।
श्रीकृष्णः श्रावणमासे जातः इति कुत्रचित्, भाद्रपदमासे इति अन्यत्र, सिंहमासे इति अपरत्र उक्तम् अस्ति ।
भाद्रपदमासस्य कृष्णपक्षस्य अर्ध-रात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणी-नक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम् इति श्रीकृष्णः एव अवदत् इति भविष्योत्तरपुराणं वदति ।
अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥ इति हरिवंशे उक्तम् अस्ति ।
प्राजपत्येन संयुक्ता अष्टमी सा यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ।। इति वदति स्कान्दपुराणम् ।
अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति । जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्रीमद्भागवतस्य, हरिवंशस्य, विष्णुपुराणस्य, भगवद्गीतायाः वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, क्षीरान्नं, परमान्नं, गुडयुक्तपृथुकं, नवनीतं, शुण्ठिगुडमिश्रणं च समर्पयन्ति । वेदमन्त्रैः, शास्त्रवाक्यैः, इतिहास-पुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।











