वार्ताहर:-प्रवेशकुमारशुक्ल: भोपालम्
भोपालम्, ७ अगस्त > केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य तत्वावधानेन केन्द्रीयविद्यायालय-भोपाले संस्कृतसप्ताहोत्सवस्यावसरं प्राप्य विविधाः शैक्षिक-सांस्कृतिककार्यक्रमाः प्रतियोगिताः च सम्पन्नाः। अस्मिन्नायोजने गीतस्पर्धा, गीतागानम्, श्लोकवाचनम्, निबन्धलेखनस्पर्धा: इत्यादयः कार्यक्रमाः आयोजिता:। छात्राः छात्राश्च अतीव उत्साहेन भागं गृहीततवन्तः।
विद्यालयस्य प्राचार्यः श्री जितेन्द्र रावतः अस्मिन् प्रसङ्गे अवदत्—
“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा—एकं संस्कृति:, द्वितीयं संस्कृतभाषा। एतेयोः संरक्षणं प्रचारश्च भारतस्य वैश्विकपटलस्थ प्रतिष्ठां सुदृढयितुं शक्नुवन्ति।”
मुख्यवक्तारूपेण उपस्थितः केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य निदेशकः प्रो. रमाकान्त पाण्डेयः भाषायाः वैज्ञानिकपार्श्वं प्रकाशयन् अवदत्—
“संस्कृतभाषायाः श्रवणमात्रेण, भाषणेन च, स्मृतिशक्तिः तीव्रा भवति, तथा च विविधरोगाणां निवारणं सम्भवमस्ति। एषा न केवलं परम्परागतश्रद्धा, अपितु अनुसंधाननिष्पन्नं सत्यं अपि अस्ति।”
संस्कृतभाषा भारतस्य प्राचीनतमं, वैज्ञानिकं, समृद्धं च वाङ्मयं वहति। एषा केवलं धार्मिकग्रन्थेषु न दृश्यते, अपितु विज्ञानम्, गणितम्, आयुर्वेदः, ज्योतिषम्, दर्शनं च इत्येतेषु क्षेत्रेषु अपि अतुलं योगदानं दत्तवती । अस्याः प्रचाराय, प्रसाराय च प्रतिवर्षं श्रावणपूर्णिमातिथेः आरभ्य “संस्कृतसप्ताहः” आभारते आयोज्यते।
संस्कृतदिवसः, यः श्रावणपूर्णिमायां भवति, विशेषं स्थानं धारयति। प्राचीनकाले एतत् दिनम् “श्रावण्युपाकर्म” इत्याख्यः आसीत्, यस्मिन् दिनाङ्के छात्राः वेदाध्ययनस्य नवसंकल्पं कुर्वन्ति स्म। एषा एव तिथिः “रक्षाबन्धन” इत्यपि पर्व मान्यते, यः रक्षा-कर्तव्य-विश्वासानां प्रतीकः अस्ति। एते सर्वे पर्वणः—संस्कृतदिवसः, श्रावणी च, रक्षाबन्धनश्च—भारतीयसंस्कृतेः ज्ञान-परम्परा-श्रद्धा इत्येतयोः त्रिवेणीकलया सम्बन्धिता दृश्यन्ते।
विद्यालयस्य उपप्राचार्यः श्री महेश बिरलः अपि संस्कृतदिवसस्य सांस्कृतिकमहत्त्वं प्रकटितवान्।
सभा-संचालनं श्रीमती राकेश शर्मा कृता, धन्यवादप्रस्तावः श्री ओम् प्रकाश जांगिड़ महोदयेन समर्पितः।
छात्रेषु सोनाक्षी, प्रणव पाठक, आदर्श साहू, संहिता, ख्याति, भव्य बिरला इत्येते छात्राः विविधासु स्पर्धासु स्वप्रतिभां प्रकाशयन्तः आसीत्।
कार्यक्रमे सी.एस्.यू. (CSU) शिक्षाशास्त्रविभागस्य वरिष्ठप्राध्यापकः प्रो. सोमनाथसाहू, डा. नरसिम्हालु, अन्ये च शिक्षकवृन्दाः सान्निध्यं दत्तवन्तः।
एषः संस्कृतसप्ताहः केवलं भाषाभ्यासस्य अवसरः न, अपितु अस्माकं सांस्कृतिकचेतनायाः जागरणाय शक्तिस्रोतः अपि भवति, यः नवयुवानां स्वसंस्कृतेः मूलैः पुनः संयोजने समर्थः भवति











