प्रेषक:-प्रवेशकुमारशुक्ल:
भोपालम्, ७ अगस्त > संस्कृतभाषाया: संस्कृत्याश्च गौरवप्रसारणाय केन्द्रीयसंस्कृतविश्वविद्यालयस्य माननीयकुलपतिना प्रो॰ श्रीनिवासवारखेडी-महोदयस्य नेतृत्वे अखिलभारतीयपरिसरेषु संस्कृतसप्ताहमहोत्सवस्यायोजनं प्रचलतस्ति
। तदन्तर्गते भोपालस्थिते आदर्शावासीयकन्यासनस्कृतविद्यालये अपि नानाविधैः सांस्कृतिकैः शैक्षिकैः च कार्यक्रमैः सह उत्सवः सफलतया सम्पन्नः।
भोपालपरिसरनिदेशकः प्रो॰ रमाकान्तपाण्डेय-महोदयः अस्य आयोजनस्य मार्गदर्शकः आसीत्। रंगोलिप्रतियोगिता, रक्षासूत्रनिर्माणप्रतियोगिता, गीतगायनम्, श्लोकपाठः, सांस्कृतिकनाट्यप्रस्तुतयः च कार्यक्रमस्य आकर्षणानि आसन्। विशेषतया रक्षाबन्धनमहोत्सवेन सह संस्कृतसप्ताहस्य समन्वयः सर्वेषां हृदयेषु हर्षं सञ्जनयामास।
व्याकरणविभागाध्यक्षः प्रो॰ सुबोधशर्मा विद्यार्थिनं सम्बोध्य अवदत्— “यावत् अस्मिन् भूमण्डले संस्कृतभाषा संस्कृतिश्च जीवतः, तावत् भारतस्य यशः प्रतिष्ठा च अक्षुण्णे भविष्यतः।” एवं प्रो॰ प्रदीपपाण्डेय-महोदयः उक्तवान्— “शिक्षा संस्कारवर्जिता अपूर्णा, संस्कारः तु संस्कृतेः अन्तःसलिले निहितः अस्ति। अतः संस्कृतस्य साधना अनिवार्या।”
रक्षाबन्धनस्य महत्वं निरूपयन्तः वक्तारः अवदन्— “एषः पर्वः भ्रातृभगिन्योः स्नेहविश्वासयोः च प्रतीकः। प्राचीनकालेऽपि एषः केवलं पारिवारिकः नासीत्, अपि तु सामाजिकः धार्मिकश्च रक्षासंस्कारः, यत्र ऋषिभ्यः, मित्रेभ्यः, राजभ्यः च रक्षासूत्रं बध्यते स्म। अद्यापि तस्यैव संदेशः— सुरक्षा, प्रेम, कर्तव्यञ्च।”
कार्यक्रमः श्रीसरस्वत्याः पूजनदीपप्रज्वलनाभ्यां विधिवत् आरब्धः, धन्यवादप्रस्तावेन च सुष्ठु सम्पन्नः। अस्य कार्यक्रमस्य समन्वयकः प्रो॰ सोमनाथसाहू, डॉ॰ नरसिंह्मालू , विद्यालयस्य माननीयशिक्षकवर्गश्च उपस्थिताः आसन्।
जयतु संस्कृतम्!! जयतु भारतम्!!











