धर्मो रक्षति रक्षित:

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य सनातनकर्मकाण्डाध्यात्मसमितिश्च संयुक्ततत्त्वावधानेन श्रावणी-उपाकर्मसम्पन्न:

धर्मो रक्षति रक्षित:

भोपालम्, ९ अगस्तः २०२५ (संवादक:– प्रवेशकुमारशुक्लः )।

श्रावणपूर्णिमायां तिथौ प्रातः नववादने शीतलदासस्य उद्याने, कमलाओद्याने महातडागस्य तटे, भोपालनगरे श्रावणी-उपाकर्मसमारम्भः वैदिकविधिपूर्वकं सम्पन्नः। अस्मिन्नुत्सवे द्विशताधिकाः वैदिकसनातनीभ्रातरः पुण्यलाभं प्राप्तवन्तः।

समारम्भे आचार्यः डॉ॰ रामकुमारदेवलियः वैदिकविधिना संकल्पं पूजनं च सम्पन्न्य व्याचष्ट – प्रतिवर्षं हेमाद्रिसंकल्पपूर्वकं प्रायश्चित्तार्थं दशविधिस्नानं, वेदपूजनं, ऋषिपूजनं, ऋषितर्पणं, नूतनयज्ञोपवीतधारणं च पञ्चब्राह्मणैः क्रियते इति।

अस्मिन्नवसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य निदेशकः प्रो॰ रमाकान्तपाण्डेयः श्रावण्याः महत्त्वं प्रकाशितंम् भणितं यत् वर्षपर्यन्तं कृतानां ज्ञाताज्ञातपापानां प्रायश्चित्तं शुद्धिकरणं च कृत्वा, पूर्वजऋषीणां तर्पणं पूजनं च कृत्वा नूतनयज्ञोपवीतधारणस्य परम्परा प्रचलिता अस्तीति

आयोजने प्रो॰ सुबोधशर्मा, प्रो॰ सनन्दनकुमारत्रिपाठि, प्रो॰ कृपाशङ्करशर्मा, डॉ॰ नन्दकिशोरतिवारी, डॉ॰ राहुलशर्मा, डॉ॰ जितेन्द्रतिवारी, डॉ॰ आशुतोषतिवारी, डॉ॰ रोहितपचौरीप्रभृतया: सनातनधर्मसस्यास्योपासका: सानन्दं उपस्थिताः आसन्। धार्मिकभावेन, वैदिकमङ्गलध्वनिभिः, सुसम्पन्नः अभवत्।