भारत- रूस – चीन -ब्रिक्स सहयोग

रूस-युक्रेन-युद्धविरामप्रयासानां ट्रम्पस्य शुल्कयुद्धस्य च मध्ये , द्रुतगत्या परिवर्तनशील वैश्विकः भू-राजनीतिक-परिस्थितौ भारतं स्वस्य सर्वेषु विकल्पेषु निकटतया अन्वेषणं कुर्वन् अस्ति। अस्मिन् विषये प्रधानमन्त्री श्री नरेन्द्रमोदी, विदेशमन्त्री श्री जयशंकरः, राष्ट्रिय-सुरक्षा-परामर्शदः अजित डोभालः च विदेशमन्त्रालयेन सह रूस, चीन, ब्राजील इत्यादिभिः ब्रिक्सदेशैः सह अनेकविषयेषु सघनविमर्शं कुर्वन्ति।
रूसदेशस्य राष्ट्रपतिः व्लादिमिर पुटिन इत्येषः प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अलास्कायाम् अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रम्पेन सह एव जातस्य मेलनस्य विषये विवरणं प्रदातुं दूरभाषया सम्पर्कम् अकरोत्। सोशल मीडिया-सन्देशे श्रीमोदी रूसदेशस्य राष्ट्रपतिं विवरणानाम् आदान-प्रदानाय धन्यवादं प्रदत्तवान्, तथा च भारतम् युक्रेन्-संघर्षस्य शान्तियुतस्य समाधानाय निरन्तरम् आह्वानं करोति, अस्मिन् विषये सर्वविध प्रयत्नान् च समर्थयति इति दृढीकृतवान्। श्रीमोदी आशा प्रकटितवान् यत् आगामिदिनेषु राष्ट्रपतिना पुटिनेन सह निरन्तरं वार्तालापः भविष्यति इति।
विदेशमन्त्री डा. एस्. जयशङ्करः नवदिल्ल्यां चीनदेशस्य विदेशमन्त्रिणा वांग् यी इत्यनेन सह वार्तालापम् अकरोत्। उपवेशनस्य आरम्भे डा. जयशकरः द्वैपाक्षिकसम्बन्धान् कठिनकालात् अग्रे प्रवर्धनाय परस्परम् आदरः, संवेदनशीलता, अभिरुचिः इत्येतेषु त्रिआयामेष अवधानं दत्तवान्।
आर्थिक-व्यापारः, तीर्थयात्रा, जन-सम्पर्कः, नदी-दत्तांश-आदान-प्रदानम्, सीमा-व्यापारः, सम्पर्कः, द्वैपाक्षिक-आदानप्रदानेषु च चर्चाऽभवत्।
राष्ट्रिय-सुरक्षा-परामर्शदः अजित डोभालः चीन-देशस्य विदेश मन्त्री वांग यी इत्येतौ नवदेहल्यां भारत-चीन सीमा-विवादेति विषये चतुर्विशतितमं विशेषप्रतिनिधिस्तरां चर्चा कृतवन्तौ । डोभालः गत-नवमासेषु सीमायां स्थितिः परिष्कृतेति अवोचत्। सः प्रधानमन्त्रिणः मोदिनः एस्. सी. ओ. शिखरसम्मेलने आगमनात् पूर्वम् इतोऽपि प्रगतिः भविष्यति इति आशां प्रकटितवान्।
तदनन्तरं विदेशमन्त्री डॉ. सुब्रह्मण्यम-जयशंकरः व्यापार-आर्थिक-वैज्ञानिक प्रविधि-सांस्कृतिक-सहयोगे भारत-रूस-अन्तर-शासनिक-आयोग-सम्मेलनस्य सह-अध्यक्षतां कुर्यात्। एतत् षड्विशं सम्मेलनं भवेत्। डॉ. जयशंकरः मॉस्को इत्यत्र भारत-रूस-व्यापार-मञ्चस्य उपवेशनमपि सम्बोधयिष्यति।
विदेशमन्त्री डा. एस्. जयशङ्करः मास्को-नगरे रशियादेशस्य प्रतिनिधिभिः, प्रमुखैः विद्वद्भिः, चिन्तकैश्व सह वार्तालापम् अकरोत्।
उद्घाटनभापणे डॉ. जयश‌ङ्करः अवदत् यत्, एषा सभा राजनैतिक-सङ्गति-विषये चर्चा कर्तुं, द्विपक्षीय-सम्बन्धानां समीक्षां कर्तुं च अवसरभूताऽस्ति । सः अवदन् यत् अद्य तयोः सभायाः वैश्विकः प्रसङ्गः उदीयमान-भू-राजनीतिक-स्थितौ, परिवर्तमानम् आर्थिक-व्यापारिक-परिदृश्यम्, अधिकतम-अनुकूलतानां साधनाय उभयोः देशयोः लक्ष्यानि च सन्ति। सः विश्वासं प्रकटितवान् यत् अद्यतनः विचारविनिमयः भारत-रूस-वार्षिक-शिखर सम्मेलनं यथासम्भवम् परिणामोन्मुखं कर्तुं महत्त्वपूर्ण योगदानं करिष्यतीति ।