गणेशोत्सवस्य आरम्भः – २६ अथवा २७ अगस्ते ?

अस्मिन् वर्षे २७ अगस्ते गणेशमहोत्सवः आरभ्यते। ०६ सितम्बरदिने गणेशप्रतिमायाः विसर्जनं करिष्यते।

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म्भूर्भुवस्सुवरोम् इत्याशयं प्रकाशयति गाणपत्यथर्वशीर्षमहोपनिषत् । पुराणे इतिहासा गमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, इण्डोनेशिया, चीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः । महाभारतं व्यासविरचितं गणेशलिखितम् इति प्रसिद्धम् । याज्ञवल्क्यस्मृतौ, बोधायनगृह्यसूत्रे, महाभारतस्य वनपर्व-अनुशासनपर्वयोः, गोभिलस्मृतौ, बाणभट्टस्य हर्ष-चरिते, वामनपुराणे, मत्स्यपुराणे, भविष्यपुराणे, अग्निपुराणे, जैनानाम् “आचारदिनकर”ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डि-गणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति । गणेश: आकाशस्य अभिमानि-देवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् उदरं ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: सर्प: ब्रह्माण्डं वहन् आदिशेष: । विशालौ कर्णौ ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।