भारत-अमेरिका सम्बन्धः

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् सः अमेरिकादेशस्य राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य भावनायाः पूर्णरूपेण सम्मानं करोति तथा च भारत-अमेरिका-देशयोः सम्बन्धानां सकारात्मकमूल्यांकनं गंभीरतया प्रशंसितः। एकस्मिन् सोशल मीडिया सुन्देशे प्रधानमन्त्री अवदत् यत् भारत-अमेरिका-सहभागित्वम् अतीव सकारात्मकं, दूरदर्शी च अस्ति इति। सः अवदत् यत् द्वयोः देशयोः मध्ये सम्बन्धः वैश्विकस्तरे व्यापकः सामरिकः च अस्ति इति।
गतरात्रौ वाशिङ्ग्टन्-नगरे वार्ताहरान् सम्बोधयन् श्रीट्रम्पः अवदत् यत् भारत-अमेरिका-देशयोः मध्ये विशिष्टः सम्बन्धः अस्ति, किमपि चिन्तयितुं नास्ति इति। सः अकथयत् यत् श्रीनरेन्द्रमोदी एकः महान् प्रधानमन्त्री अस्ति, सः सर्वदा तस्य मित्रः भविष्यति इति। इतः पूर्व ट्रम्पः सोशल मीडिया सन्देशे उक्तवान् यत् अमेरिका-देशः भारतं चीन-देशात् पराजयत इति आकाशववाण्या सह चर्चायां पूर्वराजदूतः अशोक सज्जनहरः अवदत् यत् आगामिषु दिनेषु अमेरिकादेशेन सह भारतस्य सहभागिता इतोपि सुदृढं, जीवन्तं, गतिशीला च भविष्यति।
अस्य क्रमे वित्त मन्त्रिणा निर्मला सीतारमणेन प्रोक्तं यत् भारतदेशः रशिया-देशतः तैल-क्रयणं यथावत् स्थाम्यति। एतदर्थं राष्ट्रिय हितानां रक्षणं संधारयिष्यति। एकया सोशल मीडिया-वाहिन्या मह मञ्जाते स्वीये साक्षात्कारे वित्तर्मेन्त्रिणा प्रोक्तं यत् भारत-देशः स्वीय-आवश्यकतानां पूर्तये वस्तूनां क्रयणं करिष्यति। वस्तु-सेवाकर-जीएसटी एतस्य नूतनायां व्यवस्थायां वित्त-मन्त्रिणा उक्तं यत् एतस्मात् कारणात् नागरिकाणां उपभोगे परिष्कारः भविष्यति।
विदेशमन्त्री डॉ. एस जयशंकरः अद्य अवदत्, यत् प्रधानमन्त्री नरेन्द्रमोदी भारतामेरिका देशयोः मध्ये सहभागित्वं अत्यन्तं महत्त्वं ददाति । अमेरिकीराष्ट्रपति डोनाल्ड ट्रम्पं प्रति प्रधानमन्त्रिणः मोदिनः प्रतिक्रियायाः विषये वार्ताहरैः सह वार्तालापं कुर्वन् डॉ. जयशंकरः अवदत् यत्, श्रीमोदिनः राष्ट्रपतिट्रम्पेन सह सर्वदा अतीव उत्तमं निज सम्बन्धः वर्तते। सः अवदत् यत् भारतं अमेरिकादेशेन सह सम्बद्धं वर्तते।