पटना – भारतनिर्वाचनायोगेन सोमवासरे बिहार-राज्यस्य विधानसभानिर्वाचनस्य कार्यक्रमः अधिकृतरूपेण प्रकाशितः। आयोगस्य घोषणानुसारं, बिहारराज्ये मतदानम् द्वाभ्यां चरणाभ्यां भविष्यति। प्रथमे चरणे नवम्बर् 6 दिने, द्वितीये चरणे नवम्बर् 11 दिने मतदाराः स्वाधिकारं प्रयोगं करिष्यन्ति। मतगणना परिणामप्रकाशनं च नवम्बर् 14, 2025 दिने निष्पाद्यते।
वर्तमानस्य 243 सदस्ययुक्तस्य विधानसभायाः कार्यकालः नवम्बर् 22 दिने समाप्तिः भविष्यति। अस्मात् कारणात् निर्वाचनायोगः समये एव चुनावस्य कार्यक्रमं निश्चितवान्। राजनैतिक-दलानि अपि आग्रहं कृतवन्तः यत् छठ्-पर्वस्य अनन्तरमेव चुनावः आयोजनीयः स्यात्, यतः तस्मिन्नेव समये बहवः परराज्येषु कार्यरताः बिहारवासी गृहं प्रत्यागच्छन्ति, येषां सहभागः मतगणनायां महत्वपूर्णः भवेत्।
2020 वर्षे सम्पन्नेषु विधानसभाचुनावेषु भारतीयजनतादलः 74 स्थानानि विजित्य प्रमुखपक्षरूपेण प्राप्तवान्। नितीशकुमारस्य जनता-दल (युनाइटेड्) 43 स्थानानि लब्धवान्। महागठबन्धनम्, यत्र राष्ट्रीय-जनतादलः (RJD), काङ्ग्रसदलः, वामपक्षदलाः च सम्मिलिताः आसन्, कुलं 110 स्थानानि प्राप्तवन्तः। तत्र RJD 75, काङ्ग्रसदलः 19, वामपक्षदलाः 16 स्थानानि लब्धवन्तः।
अस्मिन् वर्षे चुनावाय घोषणया समग्रराजनीतिकपरिदृश्ये नूतनं उत्साहं जागृतम्। प्रमुखदलेषु प्रचारकार्यक्रमाः आरम्भिताः सन्ति। भारतीयजनतादलः पुनः बहुमतस्य लक्ष्यं स्थापयति। नितीशकुमारः अपि नूतननीतिभिः मतदारान् आकर्षयितुं प्रयत्नं करोति। महागठबन्धनम् अपि नवविजयाय सज्जम्।
राज्ये प्रायः 7 कोटिः मतदाराः पञ्जीकृताः सन्ति, येषां सहभागः राज्यस्य भावी-राजनीतिं निर्णयिष्यति। निर्वाचनायोगेन आश्वासनं दत्तं यत् मतदानप्रक्रियायां पारदर्शिता, सुरक्षा, सुगमता च सुनिश्चितं भविष्यति।
अतः बिहारराज्ये द्विचरणात्मकः चुनावः सम्पूर्णजनसमुदायस्य दृष्टिपथं आकर्षति। नवम्बर् 14 दिने प्रकाशिताः परिणामाः राज्यस्य नूतन-राजनीतिक-सन्तुलनं निश्चितं करिष्यन्ति।











