संस्कृत-अकादमीस्य सचिवः डॉ॰ आनन्दभारद्वाजः भारत-गौरव-सम्माननेन सम्मानितः।

वार्ताहर:-कुलदीपमैन्दोला।

हरिद्वारे – उत्तराखण्डसंस्कृत-अकादमीयाः सभागृहे विक्रमशिला-हिन्दी-विद्यापीठस्य भागलपुरस्थितस्य वार्षिक-अधिवेशनं तथा सम्मान-समारोहः सम्पन्नः।
अस्मिन् कार्यक्रमे अकादमीस्य सचिवः डॉ॰ आनन्दभारद्वाजः भारत-गौरव-सम्मान-नाम्ना अलङ्कृतः अभवत्।
सम्मान-समारोहे देशस्य विविध-प्रदेशेभ्यः आगतानां संस्कृत-साहित्यकाराणां, कवीनां, विदुषां च श्रृंखलया भारत-गौरव-सम्मानः, विद्यासागर-सम्मानः, विद्यावाचस्पति-सम्मानः, साहित्य-वाचस्पति-सम्मानः, विद्यावारिधि-सम्मानः, साहित्य-शिरोमणि-सम्मानः, हिन्दी-साहित्य-गौरव-सम्मानः तथा कविरत्न-सम्मानः इत्येतेन विविधान् पुरस्कारान् प्रदत्तवन्तः।
संस्कृत-अकादमीस्य शोध-अधिकारी डॉ॰ हरीशचन्द्र-गुरुराणी तथा प्रकाशन-अधिकारी किशोरीलाल-रतूडी इत्युभौ अपि विक्रमशिला-हिन्दी-साहित्य-सम्मान इत्यनेन सम्मानितौ अभवताम्।
सम्मान-समारोहे उपस्थितेषु सर्वेषु अतिथिषु विक्रमशिला-हिन्दी-विद्यापीठस्य कुलपतिना डॉ॰ देवेंद्रनाथ-शाह इत्यनेन अभिवादन-सन्देशस्य श्रवणं कृतम्।
स्वागत-भाषणं कुर्वन् अकादमीस्य सचिवः डॉ॰ आनन्दभारद्वाजः अवदत्—
“साहित्यकाराः समाजस्य मार्गदर्शकाः भवन्ति। तेषां साहित्य-लेखनात् समाजः प्रेरणां मार्गदर्शनं च प्राप्य जीवनं समुन्नतं करोति।”
तेन अपि उपस्थित-श्रोतॄन् अतिथींश्च प्रदेशस्य द्वितीय-राजभाषा संस्कृतस्य प्रोत्साहनार्थं अकादमीद्वारा सञ्चालितानां योजनानां कार्यक्रमाणां परियोजनानां च विषये अवगतं कृतम्।कार्यक्रमस्य मुख्य-अतिथिः डॉ॰ श्यामवीर-सैनी इत्याख्यः भाषणं दत्तवान् यत्—
“संस्कृत-हिन्दीभाषयोः समन्वयः आवश्यकः। संस्कृतश्लोकानां पाठेन, हिन्दी-कवितानां उच्चारणेन च बालकेषु कण्ठसंबद्ध-दोषाः अपगच्छन्ति। अतः एव अस्माकं दैनिकजीवनस्य आरम्भः अपि ‘कराग्रे वसते लक्ष्मी’ इत्यादिभिः श्लोकैः सह भवति।”
विक्रमशिला-हिन्दी-विद्यापीठस्य उपकुलपतिः डॉ॰ गोपाल-नारसन इत्यपि भाषणं दत्तवान् –
“विक्रमशिला-विद्यापीठः गत-षट्पञ्चाशदधिकवर्षेभ्यः हिन्दी-साहित्य-लेखनम्, काव्य-रचना, साहित्य-परिचर्चा, साहित्य-संगोष्ठी, सम्मेलनं च निरन्तरं आयोजयति। देवभूमेः प्रवेशद्वारे हरिद्वारे एतादृशस्य सम्मेलनस्य आयोजनं अस्माकं परमं सौभाग्यं भवति।”
कार्यक्रमस्य संचालनं विक्रमशिला-विद्यापीठस्य कुल-सचिवेन डॉ॰ प्रेमचन्द्र-पाण्डेयेने कृतम्।
सम्मेलन-अवसरे अकादमीस्य शोध-अधिकारी डॉ॰ हरीशचन्द्र-गुरुराणी तथा प्रकाशन-अधिकारी किशोरीलाल-रतूडी इत्युभाभ्यां अतिथिभ्यः कविभ्यः साहित्यकारेभ्यश्च संस्कृत-सम्भाषणस्य अभ्यासः करितः।
अतिथयः स्वसंस्कृत-परिचयं दत्वा आनन्दं अनुभूतवन्तः, श्रोत्रगणः अपि संस्कृत-भाषायां आकर्षिताः अभवन्।
समारोह-अवसरे अतिथिभिः डॉ॰ शिखा-शर्मा इत्यस्याः लिखिताः तिस्रः पुस्तिकाः अपि विमोचिताः।
एतस्मिन् सन्दर्भे विक्रमशिला-हिन्दी-विद्यापीठस्य कुलपति-प्रतिनिधिः डॉ॰ प्रीतम-शाह, उपकुलपति डॉ॰ दयानन्द-जैसवाल, ब्रह्मकुमारी-मञ्जू, डॉ॰ विनोद-बब्बर, डॉ॰ विनोदकुमार-राय, आचार्य-भानुमित्र-शर्मा, डॉ॰ सत्यानन्द-बडोनी, डॉ॰ ज्ञानेन्द्र-पाण्डेय, डॉ॰ सीमा-गुप्ता, डॉ॰ मनु-शिवपुरी, हेमन्त-तिवारी, डॉ॰ रेश्मी-सिंह, कपिदेव-श्रोत्रिय, डॉ॰ नवीनशरण-निश्चल इत्यादयः प्रतिष्ठिता: विद्वांसः अपि उपस्थिताः आसन्।