राष्ट्रियसङ्गोष्ठ्याः समापने कर्तव्यनिष्ठविदुषां सम्माननम्। आगामिनी गोष्ठी महाभारते भविष्यतीति सहमतिः जाताश्रीशुकदेवाश्रमे सङ्गोष्ठ्याः समापने सङ्कल्पोऽयं गृहीतः। चत्वारिंशदधिकाः शोधार्थिनः शोधपत्रवाचनं प्रास्तुवन्।

वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः

काशीस्थचातुर्वेदसंस्कृतप्रचारसंस्थानस्य लखनऊस्थस्योत्तर-प्रदेशसंस्कृतसंस्थानस्य शुकतीर्थस्थस्य भागवतपीठस्य च संयुक्ताश्रये ‘श्रीमद्भागवतस्य विविधा आयामाः भारतीयज्ञान-परम्परायाः परिप्रेक्ष्ये’ इति विषये आयोजितायाः द्विदिवसीयायाः राष्ट्रियसङ्गोष्ठ्याः समापने महाभारतमिति विषयमधिकृत्य राष्ट्रियमन्थन-गोष्ठ्याः करणाय सङ्कल्पमङ्गीकृत्य अतिथिभिः उद्घोषितः। न्यासिनः ओमदत्तदेवस्य अभिवादनभाषणेन सह शान्तिपाठोऽभवत्। द्वितीयदिने पीठाधीश्वरस्य महाराजस्वाम्योमानन्दस्य सान्निध्ये जाते सम्पूर्तिसत्रे मुख्यवक्ता पद्मश्रीः प्रोफेसर अभिराजराजेन्द्र-मिश्रवर्यः अवदत् यत् चातुर्वेदसंस्कृत-प्रचारसंस्थानेन प्रतिवर्षं विविधतीर्थेस्थलेषु गत्वा विविधशास्त्रीयविषयेषु सङ्गोष्ठीं कर्तुं यः सङ्कल्पः स्वीकृतः सः न केवलं संस्कृतशास्त्राणां संरक्षणे महत्त्वपूर्णो वरीवर्ति अपितु तेन भारतीयसंस्कृत्या सह समाजस्य संयोजनेन सह उपकारकार्यमपि भविष्यति।अग्रे तेनोच्यते यत् यदा भक्तः ईश्वरनिष्ठां हृदये धारयति तदैव भगवतः कृपा अविरलं प्रवहति,सैव कृपा प्रपत्तेः रूपं भूत्वा भक्तस्य हृदये प्रतिष्ठिता भवति।सारस्वतातिथिः बिहारस्थ-छपराप्रदेशात् आगतः प्रो॰ वैद्यनाथमिश्रः अकथयत् यत् शुकतीर्थः संस्कृतस्य संस्कृतेश्च केन्द्रस्थलं वर्तते।अत्र संस्कृतस्य शोधार्थिभिः सङ्गोष्ठ्याः नवीना प्रेरणा प्राप्स्यते।
मुख्यातिथिः सारनाथस्थस्य केन्द्रीयतिब्बतीविश्वविद्यालयस्य संस्कृतशब्दविद्यासङ्कायप्रमुखः प्रो॰ धर्मदत्तचतुर्वेदी अवोचत् यत् संस्थानं विगतषड्विंशतिवर्षेभ्यः निरन्तरं संस्कृतसंवर्धने प्रयतमानम् अस्ति। स्ववक्तव्ये तेन प्रोक्तं यत् भागवतधरायाम् आयोजनम् अस्माकं सर्वेषां पुण्यानां विशेषफलं विद्यते। काशीस्थचातुर्वेद-संस्कृतप्रचारसंस्थानस्य राष्ट्रियाध्यक्षेण प्रो॰ हरिप्रसाद- अधिकारिमहोदयेन स्वसम्बोधने निगदितं यत् राष्ट्रोत्थाने समीचीनसमाजस्य च निर्माणे श्रीमद्भागवतस्य महत्त्वपूर्ण-मवदानम् अस्ति।अग्रे तेनोक्तं यत् भागवतमिदम् इष्टं राष्ट्रं मनुष्यं स्वसमाजं प्रति दायित्वानां बोधं कारयित्वा तस्य जीवनं सफलं सार्थकञ्च विदधाति।अधिकारिवर्येण प्रोक्तं यत् भागवतमनुष्ठानम् एकं साधनायज्ञोऽस्ति।दिनद्वयात्मक- सङ्गोष्ठ्याः सारसंक्षेपेण वक्तव्यं डॉ. तेजप्रकाशचतुर्वेदिना विहितम्।सङ्गोष्ठ्याः राष्ट्रियसंयोजकेन डॉ. चन्द्रकान्तदत्तशुक्लवर्येण दिनद्वयव्यापिन्याः सङ्गोष्ठ्याः संस्कृतस्य च प्रचारप्रसारसंरक्षणादि-उद्दिश्य किञ्चिद्वक्तव्येन सह सम्पूर्तिसत्रं सञ्चाल्यते।
भागवतपीठस्य न्यासी ओमदत्तदेवः अकथयत् यत् पीठाधीश्वरस्य महाराज-स्वाम्योमानन्दस्य प्रेरकनिर्देशने जाता इयं सङ्गोष्ठी संस्कृतविद्यार्थिभ्यः साधनायाः मार्गं दर्शयिष्यति। तेनोक्तं यत् भागवतपीठे या ऊर्जा शान्तिः ज्ञानञ्चानुभूयते तत् ब्रह्मलीनस्य महाराजस्वामिकल्याणदेवस्य सदृशानां दिव्यात्मनां सन्तजनानां तपस्त्याग-सदाचरणानां च फलम् अस्ति।
सम्पूर्तिदिने द्वयोः प्राविधिकसत्रयोः आयोजनं जातम्। येषु आध्यक्ष्यद्वयं प्रो॰ मञ्जुलताशर्मा, प्रो. राजेन्द्रत्रिपाठिरसराजश्च, प्रो. रीतातिवारी,डा. तेजप्रकाशचतुर्वेदी, संदीपकुमार इत्यादयो विशिष्टवक्तारः स्वविचारान् प्रकटीकृत्य शोधपत्रवाचनम् अकुर्वन्।अत्र चत्वारिंशदधिकशोधपत्राणां वाचनम् अभवत्।नामितशोधपत्रेभ्य उत्कृष्टशोधपत्रपुरस्कारेण मञ्चस्थैः अतिथिभिः शोधच्छात्राः सभाजिताः। अनेन व्याजेन एतेभ्यो महामुनेः श्रीशुकदेवस्य चित्रं प्रशस्तिपत्रम् उत्तरीयञ्च प्रदत्तम्।
सत्रस्य सञ्चालनं डॉ. अम्बरीशमिश्रेण प्राङ्गेश-कुमारमिश्रेण च कृतम्। श्रीशुकदेवसंस्कृतविद्यालयस्य प्रधानाचार्यः उप्रेतिगिरीशचन्द्रः कृतज्ञतां ज्ञापितवान्।
सङ्गोष्ठ्यां विद्वांसः सम्मानपत्रोत्तरीयस्मृतिचिह्नादिभिः सम्मानिताः।
चातुर्वेदसंस्कृतप्रचारसंस्थानेन सह सम्मिल्य विविधोपायेन संस्कृतस्य प्रचारप्रसारस-ंरक्षणादिकर्मसु तल्लीनाः कर्तव्यनिष्ठविद्वांसः संस्कृतिसंस्कृतशिक्षाश्रीः इति सम्मानेन राष्ट्रियाध्याक्षादिभि अतिथिभिः सबहुमानं सम्मानिताः। तत्र डाॅ. धनञ्जयमणित्रिपाठी,डाॅ. मूलचन्द्रशुक्लः,डाॅ.अरविन्दकुमारतिवारी,डॉ. इन्द्रेशपाण्डेयः,डाॅ. खगेन्द्रमिश्रः,डाॅ. अम्बरीशमिश्रः,डाॅ. तेजप्रकाशचतुर्वेदी,डाॅ.अभिषेकपाण्डेयः,डॉ. अरुणपाण्डेयः,डॉ. प्राङ्गेशकुमारमिश्रः,डॉ. प्रमोदमिश्रः इत्यादयः।
डा. रोशनी असवालः,डॉ. इन्द्रेश पाण्डेयः,डा.पराशरस्तपस्वी, डा.कुमारयोगेन्द्रः,डा.भारद्वाजरविकान्तः,कथाव्यासः शास्त्र्यचलकृष्णः, शास्त्रिसुमनकृष्णः,आचार्यावस्थ्यतुलः,डा.अङ्कुशः इत्यादयः समुपस्थिता आसन्।आयोजने प्रसादठाकुरस्य युवराजस्य मिश्रदीपकस्य च साहाय्यम् आसीत्।
सन्तविभूतेः कल्याणदेवस्य भावपूर्णं स्मरणम्- मोरनाक्षेत्रे श्रीशुकदेवाश्रमे भारतवर्षतः राष्ट्रियगोष्ठ्याम् समायाताः शतशः आचार्याः संस्कृतविद्वांसश्च सिद्धाक्षयवटवृक्षस्य परिक्रमणं कृत्वा एकस्वरेण भागवतमङ्गलाचरणस्य चातुःश-्लोकीभागवतस्य च सामूहिकपठनम् अकुर्वन्। वाराणसेयसम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः पद्मश्रीः अभिराजराजेन्द्रमिश्रः, प्रो॰अधिकारिहरिप्रसादश्च इत्यादिभिः विद्वद्भिः सह समेपि विद्वांसः तीर्थजीर्णोद्धारकस्य शिक्षार्षि-वीतरागस्य महाराजस्वामि-कल्याणदेवस्य समाधिमन्दिरे महान्तं सन्तविभूतिं प्रति श्रद्धाञ्जलिम् अर्पितवन्तः। विद्वांसः पीठाधीश्वरात् महाराजस्वाम्योमानन्दात् आशिषं प्राप्तवन्तः।