संवाददाता – प्रवेशकुमारशुक्लः, भोपालम्
केंद्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे आदिवासीबालकल्याण–संस्कृतशिक्षासमितिः रायसेन इत्येतयोः संयुक्ततत्वावधाने “भारतीयज्ञानपरम्परायां साधूनां योगदानम्” इति विषयकाऽएकदिवसीया राष्ट्रीयसङ्गोष्ठी 28 नवम्बर 2025दिनाङ्के विधिवत् उद्घाटिता। एषा सङ्गोष्ठी ब्रह्मऋषेः देवराहा-बाबायाः स्मृत्यर्थं आयोज्यते तथा केंद्रीयसंस्कृतविश्वविद्यालयस्य, नवदिल्लीस्थितस्य, यशस्विनः कुलपतिः प्रो. श्रीनिवासः वरखेड़ी इत्यस्य संरक्षणे प्रवर्तते।
उद्घाटनसत्रे मुख्यवक्तारः आचार्यचन्द्रशेखरशर्मा (पूर्वप्रचारकः–भोपालम्, संस्थापकः—ब्रह्मर्षिदेवराहाबाबा लोकसेवाआश्रमः), स्वामी रामकृष्णाचार्यवेदान्ती , मुख्याऽतिथिः श्रीजितेन्द्रपवारः (क्षेत्र–संगठनमन्त्री, विश्वहिन्दूपरिषद्, छत्तीसगढ–मध्यप्रदेश), विशिष्टवक्ता डॉ. जागेश्वरपटले (प्रान्त–संगठनमन्त्री, मध्यभारत, संस्कृतभारती) च उपस्थिताः। कार्यक्रमस्य अध्यक्षता भोपालपरिसरस्य निदेशका: प्रो. हंसधरझावर्या: अकुर्वन्।
मुख्यवक्ताचार्या: चन्द्रशेखरशर्मा अवदत्— “भारतदेशः सन्तभूमिः, ऋषिमहर्षीणां योगदानेन एषा भूमि पवित्रत्वम् उपगता।”
मुख्याऽतिथिः श्री जितेन्द्रः पवारः स्वीयवक्तव्ये अवदत् यत् “भारतीयपरम्परायाम् सन्तानां महत्त्वं तेषां च योगदानं प्रेरणारूपेण अवश्यं ग्राह्यम्। सर्वेषां सुखे विश्वासः, विश्वकल्याणे च भावना — एतत् अस्माकं सनातनी मूल्यपरम्परा।”
स्वामी रामकृष्णाचार्य वेदान्ती निगदितम् “अयं कार्यक्रमः ब्रह्मऋषेः देवराहाबाबायाः स्मृत्यर्थमायोज्यते। अयं परिसरः संस्कृतसेवायाः तथा भारतीयपरम्परारक्षणस्य अत्यन्तोपयुक्तं केन्द्रम्।” विशिष्टवक्ता डॉ. जागेश्वरपटले अवदत्—
“स्वीयाः परम्पराः संरक्षणीयाः नूतनां पीढीं तेषां विषये जागरूकतां कर्तुं शिक्षां च प्रदातुं सर्वेषां दायित्वम्। भारतीयज्ञानपरम्परायाः स्थानं विश्वे श्रेष्ठतमं तथा अग्रगण्यं भवति।” अध्यक्षीयोद्बोधने प्रो. हंसधरझा भणितं यत् “भारतीयज्ञानपरम्परा सा परम्परा या भौतिक–आध्यात्मिकयोः उभयोः पक्षयोः समन्वयं कुर्वती मानवजीवनस्य श्रेष्ठमार्गदर्शिका। वैज्ञानिक-चिन्तनं, नैतिकमूल्यानि, समग्रमानवकुलस्य कल्याणभावना — अस्याः आधाराः। अस्याः परम्परायाः संरक्षणं सर्वेषां दायित्वम्।”
सङ्गोष्ठ्याम् द्वयोः सत्रयोः मध्ये प्रायः ५० शोधपत्राणि वाचितानि, येषु व्याकरणम्, ज्योतिषम्, दर्शनम्, कम्प्यूटशास्त्रं, गणितम्, राजनीति, साहित्यम् च विषयाः प्रमुखतया आसन्। लखनऊ, नासिक, मन्दसौरः, उज्जैनः, रायसेनः, ग्वालियरः, बदायूँ च इत्यादिस्थानेभ्यः आगताः विद्वांसः स्वशोधपत्राणि प्रस्तुतवन्तः। उद्घाटनसत्रे अतिथीनां प्रति कृतज्ञता श्रीमतीरूपाल्या ज्ञापिता। कार्यक्रमस्य संचालनं संयोजकेन डॉ. अवधेशेन श्रोत्रियेन सुशोभितम्।











