नैनीतालजनपदसंस्कृतस्पर्धायाः विजेतारः पुरस्कृताः।

प्रेषक:- दीनदयालशुक्ल:

हल्द्वानी।हल्द्वानीनगरे गुरुकुल-अन्ताराष्ट्रियविद्यालये उत्तराखण्डसंस्कृताकादम्या हरिद्वारेण (उत्तराखण्डसर्वकारेण) आयोजितः जनपदस्तरीयः संस्कृतच्छात्रस्पर्धावरिष्ठवर्गः सकुशलं समपद्यत।कार्यक्रमस्य शुभारम्भः सभाध्यक्षेण वी.बी. नैनवालेन विशिष्टातिथिना च रामनगरमहाविद्यालयस्य डॉ.मूलचन्द्रशुक्लेन सरस्वतीमातुः पुरतः दीपप्रज्वालनेन माल्यार्पणेन च विहितः।
कार्यक्रमस्य समापनावसरे मुख्यातिथिः नैनीतालस्य मुख्यशिक्षाधिकारी गोविन्दजायसवालवर्यः कार्यक्रमं प्राशंसत्। सः सर्वेभ्यः विजयिप्रतिभागिभ्यः राज्यस्तरीयस्पर्धाहेतोः शुभकामनाः प्राददात् अपि च सफलायोजनार्थं विद्यालयप्रबन्धनार्थं च आभारं व्यज्ञापयत्।प्रस्तुतीनाम् उत्कृष्टतां विलोक्य सः स्वकीये उद्बोधने जनपदस्य अनेकेषु कार्यक्रमेषु संस्कृतस्य न्यूनतमान्
पञ्चकार्यक्रमान् निश्चयेन आयोजयिष्यामीति आश्वासनं दत्तवान्।अध्यक्षः गुरुकुल-अन्ताराष्ट्रियविद्यालयस्य निदेशकः वी.बी.नैनवालमहोदय उक्
तवान् यत् अतिथीनां स्वागतं विधाय संस्कृतकार्यक्रमान् दृष्ट्वा अभिभूतः अस्मीति न्यवेदयत्।
मुख्यवक्ता विशिष्टातिथिः च रामनगरमहाविद्यालयस्य सहायकप्राध्यापकः डॉ. मूलचन्द्रशुक्लः वर्येण विजेतृभ्यः राज्यस्तरे प्रतिभागित्वप्राप्तये शुभकामनाः प्रदत्ताः।अनेन सर्वासु स्पर्धासु प्रतिभागिभ्य अभ्यासेन सह नियमानां परिपालनार्थं परामर्शाः पुरस्कृताः। अग्रे तेन स्वसम्बोधने प्रोक्तं यत् छात्रान् संस्कृतभाषायां निहितानां मूलतत्त्वानां तस्याः वैज्ञानिकदृष्टिकोणस्य दार्शनिकपरम्परायाः च विषये गहनचिन्तनेन मननेन च ज्ञानसंवर्धनाय प्रेरयितुमस्माभिः प्रयासो विधेयः।नैनीतालस्थ- संस्कृतशिक्षायाः उपनिदेशकः डॉ. यशोदाप्रसादः सेमल्टी छात्राणां प्रस्तुतीः प्रशंस्य तेषाम् उज्ज्वलभवितव्यस्य कामनाम् अकरोत्। समस्तैः अतिथिभिः विजयिप्रतिभागिभ्यः पुरस्कारराशिः प्रमाणपत्राणि च प्रदत्तानि।
वरिष्ठवर्गे संस्कृतनाटकं,समूहगानं, समूहनृत्यं,वादविवादः,आशुभाषणं, श्लोकोच्चारणम् इति षड्विधाः प्रतियोगिताः आयोजिताः अभवन्। तत्र नाटके श्रीसनातनधर्मसंस्कृतोत्तरमध्यमाविद्यालयेन हल्द्वानीस्थेन प्रथमं स्थानं, प्रधानमन्त्र्युत्कर्षराजकीयबालिका-विद्यालयेन हल्द्वानीस्थेन च द्वितीयं स्थानं प्राप्तम्। समूहगाने के.वी.एम.पब्लिकविद्यालयेन हल्द्वानीस्थेन प्रथमं, गुरुकुल-अन्ताराष्ट्रियविद्यालयेन हल्द्वानीस्थेन द्वितीयं, राजकीय-इण्टरविद्यालयेन पश्याँस्थेन च तृतीयं स्थानम् अर्जितम्। समूहनृत्यस्पर्धायाम् अटल-उत्कृष्टराजकीय-विद्यालयेन फूलचौडस्थेन प्रथमं, प्रधानमन्त्र्युत्कर्षराजकीयबालिका-विद्यालयेन दौलियास्थेन द्वितीयं, राजीवगान्धिनवोदयविद्यालयेन स्यातकोटाबागस्थेन च तृतीयं स्थानं लब्धम्। संस्कृतवादविवादस्पर्धायां राजकीय-विद्यालयेन पतलोटस्थेन प्रथमं,राजकीय-विद्यालयेन पश्याँस्थेन द्वितीयं, श्रीसनातनधर्मसंस्कृतोत्तरमध्यमाविद्यालयेन हल्द्वानीस्थेन च तृतीयं स्थानं प्राप्तम्। तद्वद् आशुभाषणस्पर्धायां राजकीय-इण्टरविद्यालयः पश्याँ इत्यस्य दीपिका परगांई प्रथमं, श्रीसनातनधर्मसंस्कृतोत्तरमध्यमाविद्यालयः हल्द्वानीस्थः इत्यस्य अङ्कितः परगांई द्वितीयम् , एम.बी.राजकीयस्नातकोत्तरमहाविद्यालयः हल्द्वानीस्थः इत्यस्य हिमांशुः पोखरिया च तृतीयं स्थानम् अलभन्त।संस्कृतश्लोकोच्चारणे एम.बी.राजकीयस्नातकोत्तरमहाविद्यालयस्य हल्द्वानीस्थस्य चन्द्रकान्तः कफल्टिया प्रथमं, श्रीसनातनधर्मसंस्कृतोत्तरमध्यमाविद्यालयस्य हल्द्वानीस्थस्य लोकेशभट्टः द्वितीयं,पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालयस्य रामनगरस्थस्य पूजा मौलेखी च तृतीयं स्थानं प्राप्तवत्यः।
कार्यक्रमस्य कुशलं सञ्चालनं जनपदसंयोजकेन डा. हेमचन्द्रजोशी महोदयेन दीप्ति जोशी इत्यनया च संयुक्ततया कृतम्।धन्यवादज्ञापनं सहसंयोजकेन डॉ. राजेन्द्रभट्टः इत्यनेन विहितम्।अस्मिन्नवसरे जे.पी.सिंहः,डॉ. माजिलासोहनः,आशुतोषः साहः,कुसुमः पालः,प्रिया कुमारी,यशवन्तः चौहानः,डॉ. मूलचन्द्रशुक्लः,डॉ.हेमचन्द्रः तिवारी,भगवतीप्रसादः शर्मा,माया बिष्टः,भावना बिष्टः,पुष्पा टम्टा, सुरेशः पोखरिया,डॉ. हेमन्तः जोशी, डॉ. राजेशः पोखरिया, दिनेशचन्द्रोपाध्यायः,डॉ.कमलः बेलवालः,डॉ. जगदीशः पाण्डेयः, डॉ. दीपचन्द्रः जोशी इत्यादयः निर्णायकाः,निर्णायकमण्डलसदस्याः, दलशिक्षकाः,विद्यालयशिक्षकाः, अभिभावकाः,प्रतिभागिनश्च उपस्थिताः आसन्।