केंद्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्विदिवसीय शोधोपकरणकार्यशाला सम्पन्ना

वार्ताहर:–प्रवेशकुमारशुक्लः, भोपालम्

केंद्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे आयोजित-द्विदिवसीय शोधोपकरण-कार्यशालायाः उद्घाटनसत्रे शोधोपकरणानां प्रासंगिकता, आवश्यक्ता च विषये एकः सारगर्भित-प्रभावशाली-विमर्शः सम्पन्नः। कार्यक्रमस्य शुभारम्भः शक्तिगौतम्या लौकिकमङ्गलाचरणेन कृता। ततः परं कार्यक्रमस्य संचालनं आशुतोषद्विवेदिना सुशोभनरूपेण निरूहितम्।
प्रास्ताविकवक्तव्यं प्रो. गोविन्दकुमारपाण्डेयैः प्रदत्तम्। ते अवदन् “अद्यतनयुगे शोधः तदा एव फलप्रदः मन्यते यदा शोधार्थिनः उपकरणप्रयोगे निपुणाः सन्ति तथा तैः प्राप्तस्याङ्कनस्य वैज्ञानिकविश्लेषणं शास्त्रानुसारं कर्तुं शक्यते।”
कार्यक्रमस्याध्यक्षत्वं परिसरनिर्देशकैः प्रो. हंसधरझामहोदयै: कृतम्।
मुख्यवक्तारूपेण उपस्थिताः प्रो. रमेशप्रसादपाठक: (पूर्वविभाध्यक्षः) शोधोपकरणानां बहुवार्तात्मकमहत्त्वम् विस्तरेण प्रकाशयन् अवदन्—
“समुचितोपकरणचयनेन एव शोधस्य दिशानिर्धारणं भवति। उपकरणानि यत् अधिकं विश्वसनीयानि भवन्ति, तत्र निष्कर्षाः तत् अधिकं प्रमाणिकाः भविष्यन्ति।”
ते अपि उक्तवन्तः यत् आधुनिके अनुसन्धानकर्मणि केवलं विषयज्ञानं न पर्याप्तम्, अपितु उपकरणस्य सम्यक् उपयोगः, सांख्यिकीयपद्धतयः, तथा दत्तांशव्याख्यानदक्षता च अत्यन्तावश्यकाः सन्ति।
विशेषवक्तारूपेण डॉ. दातारामपाठकः (सहायकाचार्यः, शिक्षाशास्त्रविभागः, नासिकपरिसरः) अवदत्—
“शोधोपकरणानि अनुसन्धानं वैज्ञानिकरूपेण समृद्धयन्ति उपकरणसहाय्येन संशोधकाः समस्यासु वस्तुनिष्ठतया, माप्यतया, तर्कसंगततया च अवगन्तुं शक्नुवन्ति।”
कार्यक्रमे संयोजकत्वे नितिनकुमारजैनः, डॉ. रजनी वी. जी., डॉ. गोविन्दसरकारश्च सक्रियतया नियोजिताः आसन्।
विभागीयवरिष्ठाचार्येषु प्रो. सोमनाथसाहु, प्रो. अशोककुमारकच्छवाह, डॉ. प्रदीपकुमारजोशी, डॉ. कृष्णकान्ततिवारी, डॉ. एस्. कृष्णाप्रभृतया: विद्वांसः उपस्थिताः आसन्, येषां सान्निध्येन कार्यक्रमस्य गरिमा वर्धिता।
उद्घाटनसत्रस्य समापनकाले अनमोलझा धन्यवादप्रवचनम् उपस्थापितम्। स: सर्वेभ्यः विद्वद्भ्यः, आयोजकभ्यः, सहभागीभ्यः च कृतज्ञतां प्रदायभणितं यत् एतादृशा: शैक्षिकगतिविधयः शोधार्थिभ्यः महान् प्रेरणास्रोतः भवन्ति।