संस्कृताध्ययनकेन्द्रस्य 2025-26 सत्रस्य शुभारम्भः – जी. डी . मोदी ऑफ आर्ट्स, पालनपुरं , गुजरातम्

संवादक:- प्रवेशकुमारशुक्ल:, गुजरातम्

संस्कृताध्ययनकेन्द्रं जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्मिन् महाविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालः नवदेहली द्वारा सञ्चालितमस्ति । संस्कृताध्ययनकेन्द्रे प्रमाणपत्रीय-पाठ्यक्रमः, दक्षतापाठ्यक्रमः च प्रचलति । अद्य संस्कृताध्ययनकेन्द्रस्य शुभारम्भः , संस्कृतभाषणशिबिरस्य समारोहः , गीताजयन्ती उत्सवकार्यक्रमः च एते त्रयः कार्यक्रमाः सुसम्पन्नाः जाताः । कार्यक्रमस्य आरम्भे मंगलाचरणं प्ररेणाभगिनी अकरोत् । एतस्य अनन्तरं डाॅ. सुरेखाबेन-पटेलः सर्वेषाम् अतिथीनां परिचयं कारितवती । कार्यक्रमस्य सञ्चालनं संस्कृताध्ययनकेन्द्रस्य प्रशिक्षकः हरिश्चन्द्रमहोदयः अकरोत् । कार्यक्रमस्य अध्यक्षता रूपेण जी.डी मोदी इति महाविद्यालयस्य प्राचार्या डाॅ राधाबेनमहोदया आसीत् । महोदयया उक्तं यत् संस्कृतभाषा सर्वासां भाषाणां जननी वर्तते , संस्कृतसम्भाषणस्य महत्त्वं , संस्कृताध्ययनकेन्द्रस्य उद्देश्यं, संस्काराणां मूल्यं , भारतीयसंस्कृतेः विशेषताः च एतेषां विषये अस्मान् सर्वान् बोधितवती एवञ्च संस्कृतभाषा सर्वेषां भाषा इति जय घोषं कृतवती । कार्यक्रमस्य मुख्यातिथिरूपेण महाविद्यालयस्य राजनीतिविभागस्य अध्यक्षः डा. सोहनभाईदवे आसीत् । महोदयेन उक्तं यत् संस्कृतभाषा केवलं पाठ्यक्रमी भाषा भवेत् एषा भाषा व्यवहारिकी भाषा भूयात् एवञ्च संस्कृतभाषा नैतिकजीवने बहु-महत्त्वपूर्णा भाषा वर्तते । अस्मिन् कार्यक्रमे बहवः छात्राः भागं ग्रहीतवन्तः तथा च श्रीमद्भवतगीताविषये स्वस्य विचारान् प्रकटितवन्तः । मानसी, मानवः , नेहलभगिनी, जीनलभगिनी, मानसी, कशीशभगिनी , भूमिः ,अनाली च एतषां द्वारा गीतायाः प्रस्तुतयः जाताः । जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्मिन् महाविद्यालये
संस्कृताध्ययनकेन्द्रस्य प्रशिक्षकः हरिश्चन्द्रः वर्तते । कार्यक्रमस्य सहसंयोजिका डाॅ. जीनकीबेनपटेलः सर्वेषाम् अतिथीनां छात्राणाञ्च आभारं ज्ञापितवती । कार्यक्रमे प्रार्चाया राधाबेनपटेलः, संयोजिका डाॅ. सुरेखाबेनपटेलः , डाॅ. विजयमहोदयः , डाॅ. जानकीबेनपटेलः इत्यादः उपस्थिताः आसीन् । कार्यक्रमे 150 छात्राः उपस्थिताः आसन् । कार्यक्रमस्य शान्तिमन्त्रेण समापनं जातम् ।