वार्ताप्रेषकः- अर्जुन शास्त्री
जलगाव-नगरे स्थिते स्वामिविवेकानन्द-कनिष्ठमहाविद्यालये प्रतिवर्षवत् “युवास्पन्दन–२०२५” इति स्नेहसंमेलनस्य आयोजनं दिनाङ्के १८ तथा १९ डिसम्बर २०२५ तमे वर्षे कृतम्। अस्य स्नेहसंमेलनस्य भव्यं उद्घाटनं दिनाङ्के १८ डिसम्बर तमे दिने हर्षोल्लासेन सम्पन्नम्।
उद्घाटनसमारोहस्य प्रमुखातिथिरूपेण के.सी.ई. सोसायटी, जलगाव इत्यस्याः शैक्षणिक-सञ्चालिका डाॅ. मृणालिनी फडणवीस महोदया उपस्थिताभूत्। समारोहस्य अध्यक्षस्थाने महाविद्यालयस्य शैक्षणिक-सांस्कृतिक-समन्वयकः प्रा. शशिकान्त वडोदकर आसीत्। अस्मिन् अवसरे उपप्राचार्यः प्रा. आर. बी. ठाकरे, पर्यवेक्षिका प्रा. स्वाती बऱ्हाटे, समन्वयकः प्रा. उमेश पाटील, स्नेहसंमेलन-प्रमुखा प्रा. वर्षा पाटील उपाध्यक्षः प्रा. संदीप वानखेडे च उपस्थिताः आसन्।
कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन सरस्वती-प्रतिमायाः पूजया च अभवत्। विद्यार्थिभिः सादरितेन स्वागतगीतेन वातावरणं सुमधुरं कृतम्। उद्घाटनसमारोहस्य सूत्रसञ्चालनं प्रा. रूपम निळे महोदयेन कृतम्, आभारप्रदर्शनं च प्रा. किरण महाजन महोदयेन कृतम्।
प्रमुखातिथिः डाॅ. मृणालिनी फडणवीस महोदया अवदत् यत्—स्नेहसंमेलनं विद्यार्थिनां सुप्तकलागुणानां विकासाय उत्तमं व्यासपीठं भवति। शैक्षणिक-संपादनस्य सह व्यक्तित्वविकासेऽपि एते कार्यक्रमाः महत्त्वपूर्णाः सन्ति। अध्यक्षीय-भाषणे प्रा. शशिकान्त वडोदकर महोदयेन शैक्षणिक-विकासेन सह कलात्मक-विकासस्य आवश्यकतां प्रतिपादितम्।
ततः अनन्तरं विविधाः स्पर्धाः आयोजिता अभवन्। “महिला-सुरक्षा” इति विषयः प्रमुखाकर्षणकेंद्ररूपेण उदभवत्। रङ्गोली-प्रतियोगितायां ३७ विद्यार्थिनः सहभागीभूताः। “अयोध्यायाः रामः”, “शिवराजः”, “स्त्री-भ्रूणहत्या” इत्यादि विषयेषु निर्मिताः रङ्गोलयः प्रेक्षकान् आकृष्टवन्तः। मेहन्दी-प्रतियोगितायां २९ विद्यार्थिनः सहभागीभूताः, येषां मध्ये अरेबिक-मेहन्दी-शैली विशेषतया मनोहराभवत्।
काव्यपाठन-उत्स्फूर्तभाषण-प्रतियोगितासु विद्यार्थिभिः उत्कृष्टं सादरीकरणं कृतम्। ईशान्त-साळी इत्यस्य “रामः” इति कविता, पूर्वा-भारम्बे इत्यस्याः “मुलगी जे आईचे रूप असते” इति भावपूर्णा कविता, झीनत्-पिंजारी इत्यस्याः “जो अपना सा लगता है” इति कविता च विशेषतया प्रशंसिताः।
हास्यप्रधान-खेलाः, खाद्य-महोत्सवः, गरबा-नृत्यम् तथा “यादों की बारात” इति गीतकार्यक्रमः स्नेहसंमेलनस्य शोभां वर्धितवन्तः। “वन्दे मातरम्” इति गीतस्य १५० वर्षपूर्त्यवसरे सर्वैः प्राध्यापकैः विद्यार्थिभिः च सामूहिकरूपेण वन्देमातरम्-गीतस्य गायनेन राष्ट्रभक्त्या मानवन्दना दत्ता।
अद्य स्नेहसंमेलनस्य द्वितीयो दिवसः भविष्यति। अस्मिन् दिने भारतीय-प्रादेशिक-पारम्परिक-वेशभूषा-प्रतियोगिता, नृत्यकला-प्रतियोगिता, गीतगायन-वादन-प्रतियोगिताश्च आयोजिता भविष्यन्ति। स्नेहसंमेलनस्य समारोपः वार्षिक-पारितोषिक-वितरण-समारोहेण भविष्यति। अस्य समारोपसमारोहस्य प्रमुखातिथिरूपेण ॲड्. प्रविणचन्द्र जंगले, सहसचिवः, के.सी.ई. सोसायटी, जलगाव, उपस्थितो भविष्यति।











