स्वामीविवेकानन्द-कनिष्ठमहाविद्यालये ‘युवास्पन्दन–२०२५’ इति द्विदिवसीयस्य स्नेहसम्मेलनस्य आयोजनम्

वार्ताप्रेषकः- अर्जुन शास्त्री

जलगाव-नगरम् :
के. सी. ई. संस्थया सञ्चालिते एम्. जे. महाविद्यालयाधीनस्थिते स्वामीविवेकानन्द-कनिष्ठमहाविद्यालये दिनाङ्के अष्टादशे तथा एकोनविंशतितमे डिसेम्बरमासे, द्विसहस्रपञ्चविंशतितमे वर्षे (१८–१९.१२.२०२५) ‘युवास्पन्दन–२०२५’ इति नामकं द्विदिवसीयं स्नेहसम्मेलनं समायोज्यते।
अस्य स्नेहसम्मेलनस्य उद्घाटनसमारोहः अष्टादशे डिसेम्बरमासे प्रमुखातिथिना डाॅ. प्रविणचन्द्र-जङ्गले महोदयेन शुभहस्ताभ्यां विधिवत् सम्पन्नः भविष्यति। तस्मिन् प्रसङ्गे सांस्कृतिकसमन्वयकः शशिकान्त-वडोदकर, महाविद्यालयस्य प्राचार्यः डाॅ. एस्. एन्. भारम्बे, उपप्राचार्यः प्रा. आर्. बी. ठाकरे, पर्यवेक्षिका स्वाती-बऱ्हाटे, समन्वयकः प्रा. उमेश-पाटील तथा स्नेहसम्मेलनस्य प्रमुखा प्रा. वर्षा-पाटील इत्येते मान्यवराः सविशेषं उपस्थिताः भविष्यन्ति।
प्रथमदिने (अष्टादशे डिसेम्बरे) उत्स्फूर्त-भाषण-प्रतियोगिता, काव्यपाठन-प्रतियोगिता, विविध-छन्द-प्रतियोगिताः, मेहन्दी-रङ्गोली-प्रतियोगिताः, हास्यप्रधानाः क्रीडाः, आहारोत्सवः, गरबा-नृत्यम् तथा ‘यादों की बारात’ इति नामकः विशेषकार्यक्रमः आयोज्यन्ते।
द्वितीयदिने (एकोनविंशतितमे डिसेम्बरे) भारतीय-प्रादेशिक-पारम्परिक-वेशभूषा-प्रतियोगिता, नृत्यकला-प्रतियोगिता, गीतगायन-वादन-प्रतियोगिताः इत्यादयः मनोरञ्जनप्रधानाः सांस्कृतिककार्यक्रमाः विधिवत् आयोज्यन्ते।
अस्य द्विदिवसीयस्य स्नेहसम्मेलनस्य समापनं वार्षिक-पारितोषिक-वितरण-समारोहेण भविष्यति। पारितोषिक-वितरण-समारोहस्य अध्यक्षतां डाॅ. मृणालिनी-फडणवीस महोदया भूषयिष्यन्ति।