अद्यतनकाले विश्वस्य बहुषु राष्ट्रेषु नववर्षस्य आरम्भः जनवरी-प्रथमदिने भवति। अस्माकं भारतदेशे तु बहवः जनाः अन्येषु दिनेषु—यथा चैत्रमासे, वैशाखे, वा अन्येषु पर्वदिनेषु—नववर्षं मन्यन्ते। अतः प्रश्नः स्वाभाविकः—जनवरी-प्रथमदिनं नववर्षस्य आरम्भदिनः किमर्थं अभवत्?
पूर्वकाले सर्वदा जनवरी-प्रथमदिनः नववर्षस्य आरम्भः न आसीत्। यूरोपदेशेषु दीर्घकालं यावत् मार्च-मासस्य पञ्चविंशतितिथिः अथवा डिसेम्बर्-मासस्य पञ्चविंशतितिथिः नववर्षदिनरूपेण स्वीक्रियते स्म। रोमन-साम्राज्यस्य काले महत्त्वपूर्णः परिवर्तनः अभवत्।
रोमदेशस्य राजा नुमा पोम्पिलियसः (ईसा-पूर्वे अष्टमे शतके) रोमन-पञ्चाङ्गं परिवर्तितवान्। तेन मार्च-मासस्य स्थाने जनवरी-मासः वर्षस्य प्रथममासरूपेण स्थापिता। जनवरी-मासस्य नाम “जानुस्” इति देवताया नाम्ना कृतम्। जानुस् आरम्भाणां देवता आसीत्, सः द्विमुखः इति कथ्यते—एकेन मुखेन भूतं पश्यति, अन्येन भविष्यं। अतः नववर्षस्य आरम्भाय जनवरी-मासः उपयुक्तः इति मन्यते स्म। तथापि, ऐतिहासिकप्रमाणैः ज्ञायते यत् जनवरी-प्रथमदिनः आधिकारिकरूपेण नववर्षस्य आरम्भः केवलं ईसा-पूर्वे १५३ तमे वर्षे घोषितः।
अनन्तरं जूलियस-सीसरः ईसा-पूर्वे ४६ तमे वर्षे जूलियन-पञ्चाङ्गं प्रवर्तितवान्। अस्मिन् पञ्चाङ्गे अपि जनवरी-प्रथमदिनः वर्षस्य आरम्भः एव आसीत्। रोमन-साम्राज्यस्य विस्तारात् अयं पञ्चाङ्गः अनेकदेशेषु प्रचलितः अभवत्। परन्तु कालेन ज्ञातं यत् जूलियन-पञ्चाङ्गे अधिवर्ष-गणनायां त्रुटिः अस्ति, येन ऋतवः शनैः विचलिताः।
एतस्य समाधानाय १५८२ तमे वर्षे पोप् ग्रेगोरी त्रयोदशः ग्रेगोरियन-पञ्चाङ्गं प्रवर्तितवान्। अनेन पञ्चाङ्गेन जनवरी-प्रथमदिनः पुनः नववर्षस्य आरम्भदिनरूपेण स्थापितः। इटली, फ्रान्स्, स्पेन् इत्यादयः देशाः शीघ्रं अङ्गीकृतवन्तः, किन्तु अन्ये देशाः विलम्बेन स्वीकृतवन्तः। इंग्लैण्ड् देशे तु १७५२ तमे वर्षपर्यन्तं मार्च-मासे एव नववर्षः आरभ्यते स्म।
कालेन-कालेन अनेके अ-ख्रिस्तीयदेशाः अपि ग्रेगोरियन-पञ्चाङ्गं अङ्गीकृतवन्तः। चीनदेशः १९१२ तमे वर्षे अङ्गीकृतवान्, तथापि तत्र चान्द्र-पञ्चाङ्गानुसारं पारम्परिकं नववर्षं अपि आचर्यते। अद्यापि बहवः देशाः स्वस्व-पारम्परिक-पञ्चाङ्गानुसारं नववर्षं मन्यन्ते।
अतः स्पष्टं यत् जनवरी-प्रथमदिनः नववर्षस्य आरम्भः सांस्कृतिकः न, अपि तु ऐतिहासिकः च पञ्चाङ्गीयः निर्णयः अस्ति। एतत् ज्ञात्वा, अस्माकं स्वदेशीय-नववर्ष-परम्पराः अपि समानरूपेण सम्माननीयाः इति बोधः जायते।











