भाजपेति-दलस्य कार्यकारि-अध्यक्षः नितिन-नबीनः नूतन-राष्ट्रिय-अध्यक्षत्वेन निर्वाचितः। दलस्य राष्ट्रिय निर्वाचनाधिकारिः डा. के. लक्ष्मणः इत्येषः दलाध्यक्षत्वेन श्रीनबीनस्य नियुक्तिघोषणां कृतवान्, नवदिल्ल्यां भाजपादलस्य मुख्यालये संघट्टन-पर्वणः अवसरे निर्वाचनस्य प्रमाणपत्रं च तस्मै प्रायच्छत् । भाजपा दलस्य वरिष्ठः नेता प्रधानमन्त्री च नरेन्द्रमोदी, केन्द्रीयमन्त्रि अमितशाहः, राजनाथसिंहः, जे. पी. नड्डा, नितिनगडकरी च श्रीनबीनस्य सम्मानम् अकुर्वन् । अस्मिन् अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना भाजपा-दलस्य राष्ट्रिय-अध्यक्षत्वेन नियुक्ताय श्रीनबीनाय वर्धापनं प्रदत्तम्, सहैव प्रधानमन्त्रिवर्यः भाजपेति दलं विश्वस्य बृहत्तमं दलत्वेन अपि समबोधयत् । प्रधानमन्त्री अधोरेखितवान् यत् श्रीनबीनस्य पार्श्वे युवशक्तेः सङ्घटनकार्यस्य च विस्तृतः अनुभवः अस्ति यः दलस्य कार्यकर्तृणाकृते अतीव लाभप्रदः भविष्यति ।
प्रधानमन्त्री मोदी इत्यपि अकथयत् यत् विगतेभ्यः मासेभ्यः, सङ्घटनस्य लघुतमात् विभागात् आरभ्य राष्ट्रिय अध्यक्षस्य निर्वाचनपर्यन्तं च सम्पूर्णप्रक्रिया पूर्णतया लोकतान्त्रिकरूपेण कृता अस्ति ।सभाम् सम्बोधयन् नवनिर्वाचितः भाजपा-दलस्य राष्ट्रियः अध्यक्षः नितिन-नबीनः दलस्य सर्वोच्चस्थानं प्राप्तुम् प्रधानमन्त्रिणं प्रति कृतज्ञतां प्रकटितवान् ।
श्रीनबीनः भाजपा-दलस्य इतिहासे कनिष्ठतमः राष्ट्रियः अध्यक्षः अस्ति सहैव बिहारतः प्रथमः भाजपा नेता अस्ति यः अस्मिन् पदे नियुक्तः अस्ति। सः सम्प्रति पटना-मण्डलस्य बाङ्कीपुर्-विधानसभाक्षेत्रस्य प्रतिनिधित्वं करोति, सहैव नितीश-कुमारस्य नेतृत्वे बिहार-सर्वकारे मार्ग निर्माणविभागम् अपि धारयति ।











