पश्चिमबङ्ग- मतदातृ-सूच्यां विशेष-गहन-संशोधनं

सर्वोच्चन्यायालयेन पश्चिमबङ्गप्रदेशे मतदातृ-सूच्यां विशेष-गहन-संशोधनार्थं निर्वाचन आयोगस्य सहयोगाय पूर्व-सेवारतानां जनपद-न्यायाधीशानां नियुक्त्यर्थं निर्दिष्टम्। मुख्यन्यायाधीशः सूर्यकान्तः, न्यायमूर्तयः जोयमल्या बागची, विपुल् एम् पञ्चोली च इत्येतेषां पीठेन राज्ये विशेष-गहन-संशोधन-प्रक्रियायाः समापनं सुनिश्चतुम् अनेके नूतनाः निर्देशाः प्रदत्ताः। न्यायपीठेन तार्किक-विसङ्गति-सूच्यां स्थापितानां जनानां अभियोगानां आक्षेपानां च न्यायनिर्णयस्य कृते न्यायिक अधिकारिणां प्रतिनियुक्तिं कर्तुम् आदिशत्। अनेन कलकत्ता-उच्चन्यायालयस्य मुख्यन्यायाधीशः न्यायिकाधिकारिणाम् अपसारणपूर्वकं एस्. आई आर्. कार्ये साहाय्यं कर्तुं पूर्वन्यायाधीशानाम् अन्वेषणार्थं च समादिष्टः, यतः राज्यसर्वकारेण संशोधनप्रक्रियायाः कृते पर्याप्तं ग्रेड् ‘ए’ अधिकारिणः नैव नियुक्ताः इति।