पश्चिम एशियायै वर्धमानस्य संघर्षस्य मध्ये भारतं प्रभावितराष्ट्रैः सह निरन्तरं सम्पर्कं कुर्वन् अस्ति। संकटस्य मध्ये भारतं स्पष्टतया शान्तिव्यवस्थायाः पक्षे अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना, भारतस्य वरिष्ठाधिकारिणः च इराणसहितैः मध्यपूर्वीयनेतृभिः सह त्वरित , उच्चस्तरीयं कूटनीतिकं वार्तां कुर्वन्ति, येन भारतीय नागारिकाणां सुरक्षां सुनिश्चितं भवति, ऊर्जायाः आपूर्तिः च सुरक्षिता भवति। अस्य क्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना इरान्-देशस्य राष्ट्रपतिना डा. मसूद् पेज़ेशकियन् इत्यनेन सह वार्तालापं कृत्वा ईद-नौरोज़-उत्सवयोः शुभाशयाः प्रदत्ताः। अयम् उत्सवकालः पश्चिम एशियायां शान्तिं, स्थिरतां, समृद्धिं च आनयेदिति उभौ नेतारौ आशां प्रकटितवन्तौ। सामाजिकान्तर्जालीये सन्देशे प्रधानमन्त्री श्रीमोदी, अस्मिन् क्षेत्रे महत्त्वपूर्ण-मूलसौकर्याणाम् उपरि आक्रमणस्य निन्दाम् अकरोत्, येन वैश्विक-आपूर्तिशृङ्खलाः च बाधिताः भवन्ति। ईरान-देशे भारतीयनागरिकाणां सुरक्षायै ईरान्-देशस्य निरन्तरसमर्थनाय श्रीमोदी ईरानदेशस्य प्रशंसाम् अकरोत्।
प्रधानमन्त्री नरेन्द्रमोदी कतर देशस्य अमीर शेख तमीम-बिन- हमद अल थानी इत्यनेन सह दूरभाषद्वारा वार्तालापं कृत्वा तं कतर-देशस्य जनेभ्यश्च ईदुत्सवस्य शुभाशयाः प्रेषितवान्। सामाजिक-प्रसार-माध्यमे, प्रधानमन्त्री अवदत् यत् सः कतर-देशेन सह ऐक्यं स्थापयित्वा क्षेत्रस्य ऊर्जा-आधारिक संरचनायाः उपरि कृताक्रमणानां दृढतया निन्दां करोतीति। सः भारतीयसमुदायस्य जनेभ्यः प्रदत्तायाः परिचर्यायै समर्थनाय च कृतज्ञतां प्रकटितवान्। सः अस्मिन् क्षेत्रे शान्तेः स्थिरतायाः च आशामपि प्रकटितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना ओमानस्य, जोर्डन-देशस्य, फ्रान्स-देशस्य, मलेशिया-देशस्य चैव नेतृभिः सह उच्च-स्तरीय-कूटनीतिक-वार्तालाप-श्रृङ्खलायां वार्तालापो विहितः। संवादः कूटनीति, क्षेत्रीयस्थिरताञ्चाधिकृत्य भारतस्य प्रतिबद्धतां पुनः दृढीकर्तुं, पश्चिम एशियादेशे उद्विग्नताम् न्यूनीकर्तुं केन्द्रितः आसीत्। ओमान-जोर्डन्-देशयोः नेतृभिः सह वार्तालापं कुर्वन्, श्रीमोदी, अस्मिन् क्षेत्रे लम्बितानामवरुद्धानां वा भारतीय नागरिकाणां सुरक्षित-प्रत्यागमनाय तेषां कृतप्रयत्नानां प्रशंसाम् अकरोत्।











