सततप्रयत्नस्य विजयः (बाल कथा )

एकदा कस्यचित् देशस्य द्वयोः राज्ञोः मध्ये भीषणं युद्धम् अभवत्। तयोः मध्ये एकः राजा पराजितः अभवत्। सः जीवितरक्षणार्थं शीघ्रं वनं प्रति पलायितः। तत्र सः एकां गुफां प्राप्तवान् तथा तस्यां गुफायां शरणं गतः। विजयी राजा तं निघ्नितुम् इच्छन् स्वसैनिकान् तस्य अनुसरणाय प्रेषितवान्। सः पराजितराजा अत्यन्तं शूरः आसीत्, सः महान् पराक्रमं प्रदर्शितवान्, किन्तु तस्य सेना अत्यल्पा आसीत्। शत्रोः सेना तु विशालरूपेण आसीत्, अतः सा अल्पसेना तया महत्या सेनया सहजमेव पराजिता। अन्ततः सः विवशः सन् आत्मानं रक्षितुम् अरण्यं प्रति पलायितवान्।
वनवासे सः राजा अत्यन्तं विषण्णः अभवत्। तस्य मनसि निराशा व्याप्नोति स्म। सः स्ववीर्ये विश्वासं त्यक्त्वा धैर्यं परित्यक्तवान्। एकदा सः गुफायां शयानः आसीत्, अत्यन्तं खिन्नः सन्। तस्मिन् समये तस्य दृष्टिः गुफाया उपरि एकस्मिन् कोणे स्थितां लघुमकडीं प्रति अगच्छत्। सा मकडी स्वजालं निर्मातुं प्रयतमानाऽभवत्।
सा पुनः पुनः भित्तिम् आरोहति स्म। यदा सा किञ्चित् ऊर्ध्वं गच्छति स्म, तदा जालस्य कश्चन तन्तुः छिद्यते स्म, तथा सा भूमौ पतति स्म। एवं पुनः पुनः जातम्। प्रत्येकवारं सा पतिता, किन्तु सा न कदापि प्रयासं त्यक्तवती। सा पुनः पुनः उत्थाय पुनः प्रयासं कर्तुं प्रवृत्ता। न तस्या मनसि निराशा, न क्लेशस्य बन्धनम्। केवलं सततप्रयत्नस्य वृत्तिः एव तस्या आसीत्।
दीर्घकालपर्यन्तं सततप्रयत्नेन सा शनैः शनैः ऊर्ध्वं गत्वा अन्ततः गुफाया छदं प्राप्तवती। अनन्तरं सा सम्पूर्णं जालं सुन्दररूपेण विनिर्मितवती। एतत् दृष्ट्वा राजा अत्यन्तं चकितः अभवत्। सः स्वमनसि चिन्तितवान्—“अहो! एषा लघ्वी मकडी पुनः पुनः असफलतां प्राप्य अपि प्रयासं न त्यक्तवती। अहं तु मनुष्यः, अपि च राजा अस्मि। यदि एषा लघ्वी जीविका एवम् अनवरतं प्रयत्नं कर्तुं शक्नोति, तर्हि अहं किमर्थं धैर्यं त्यजेयम्? मया पुनः प्रयासः करणीयः।”
एवं सः स्वधैर्यं पुनः प्राप्तवान्। सः दृढनिश्चयं कृत्वा पुनरपि शत्रुणा सह युद्धं कर्तुम् उद्यतः अभवत्। सः गुफातः निर्गत्य स्वविश्वासपात्रान् सहायकान् अन्विष्य प्राप्तवान्। अनन्तरं सः स्वराज्यस्य शूरान् वीरान् आहूय समाहृतवान्। शनैः शनैः सः एकां सुदृढां सेनां निर्मितवान्।
यदा सर्वं सज्जं अभवत्, तदा सः स्वसमग्रशक्त्या सह शत्रोः विरुद्धं अभियानं कृतवान्। सः पुनः युद्धभूमौ अत्यन्तं पराक्रमेण लब्धोत्साहः सन् अवतीर्णः। अस्मिन् युद्धे सः पूर्वापेक्षया अधिकं धैर्यं प्रदर्शितवान्। तस्य सेना अपि उत्साहपूर्णा आसीत्। दीर्घसंघर्षानन्तरं अन्ततः तस्य विजयः अभवत्।
सः पुनः स्वराज्यं प्राप्तवान्। प्रजाः तं पुनरागतं दृष्ट्वा अत्यन्तं हृष्टाः अभवन्। सः राजा जीवनपर्यन्तं तां लघुमकडीं न विस्मृतवान्, या तस्मै सततप्रयत्नस्य महत्त्वं बोधितवती।
अस्याः कथायाः शिक्षा अतीव स्पष्टा अस्ति—ये जनाः असफलताभ्यः न भयन्ते, अपि तु ताभिः सह संघर्षं कुर्वन्ति, ते एव अन्ते सफलता- प्राप्नुवन्ति। अतः मनुष्येण कदापि धैर्यं न त्यक्तव्यम्, निरन्तरं प्रयासः एव कर्तव्यः।