“उत्तराखण्डे देवभूमौ हरकीपैडीक्षेत्रे प्रथमवारम् आयोजितं संस्कृतकविसम्मेलनम् ऐतिहासिकम्” — राधावल्लभत्रिपाठी

वार्ताहरः – कुलदीपमैन्दोला

साहित्य-अकादमी-नवदेहली, उत्तराखण्डसंस्कृतविश्वविद्यालयः तथा श्रीगङ्गासभा-हरिद्वारम्—एतेषां संयुक्ततत्त्वावधाने सम्पन्नेऽस्मिन् कविसम्मेलने विविधप्रान्तेभ्यः आगताः संस्कृतकवयः मातुः गङ्गायाः स्तुतिपूर्वकं स्वकाव्यानि प्रारब्धवन्तः। जयपुरनगरात् आगता लघुतमा कवयित्री संस्कृति-चतुर्वेदी प्रारम्भिकं काव्यपाठम् अकरोत्।
बागपतप्रदेशात् आगतः डॉ. अरविन्दतिवारी तथा देहरादूननगरात् समागतः प्रोफेसर रामविनयसिंहः—तयोः काव्येषु वसन्तस्य मनोहरं चित्रणम् आसीत्। अस्य विशिष्टस्य संस्कृतकविसम्मेलनस्य डॉ. शशिकान्ततिवारी “शशिधरः” सम्यक् सञ्चालनं कृतवान्।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः, संस्कृतस्य प्रख्यातः समालोचकः आचार्यः राधावल्लभत्रिपाठी महोदयः स्वमनोगतान् भावान् सद्योरचिताभिनवकाव्येन प्रकटितवान्। तेन उक्तं यत्—“उत्तराखण्डे देवभूमौ हरकीपैडीक्षेत्रे प्रथमवारम् आयोजितम् इदं अभिनवं, अद्भुतं, संस्कृतकाव्यरसप्रवाहयुक्तं कविसम्मेलनम् ऐतिहासिकम् दृश्यते।”
संपूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः, पद्मश्री-समलङ्कृतः त्रिवेणीकविः डॉ. अभिराजराजेन्द्रमिश्रः राष्ट्रभक्तेः तथा देशे प्रवर्तमानानां विकासकार्याणां प्रभावपूर्णं वर्णनं स्वकाव्येषु कृतवान्।
अपरतः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर रमाकान्तपाण्डेयः वसन्तर्तुम् आश्रित्य शृङ्गाररसपूर्णां कवितां श्रावयित्वा श्रोतॄणां हृदयानि रञ्जितवान्।
रात्रेः दीर्घकालपर्यन्तं प्रवृत्तस्य अस्य कविसम्मेलनस्य अध्यक्षतां वहन् तिरुपतिविश्वविद्यालयस्य पूर्वकुलपतिः डॉ. हरेकृष्णशतपथी महोदयः अपि स्वकाव्यपाठेन सर्वान् आह्लादितवान्।
सुल्तानपुरप्रदेशात् आगतः कविः अरुणनिषादः ‘चैता-गीत’-प्रस्तुत्या विशेषं करताडनं प्राप्तवान्। अन्ये अपि डॉ. सूर्यकान्तत्रिपाठी, डॉ. सुरचनात्रिवेदी, डॉ. युवराजभट्टराई, डॉ. प्रीतिपुजारा, डॉ. पङ्कजझा, डॉ. ऋषिराजपाठकः, डॉ. उमामहेश्वरः, डॉ. भारतभूषणरथः, डॉ. सर्वेशतिवारी, डॉ. प्रकाशचन्द्रपन्तः इत्यादयः कवयः स्वकाव्यैः श्रोतॄन् मोहितवन्तः।
कविसम्मेलनं सम्बोधयन् श्रीगङ्गासभा-हरिद्वारस्य अध्यक्षः नितिनगौतमः अवदत् यत्—एषः गङ्गासभायाः कृते प्रथमः अवसरः अस्ति यत्र विश्वविख्याताः संस्कृतकवयः स्वागतं प्राप्नुवन्ति। तेन उक्तं यत्—एतादृशानि आयोजनानि संस्कृतभाषायाः प्रचार-प्रसार-सम्वर्धन-रक्षणार्थं देवभूमौ उत्तराखण्डे, विशेषतः हरिद्वारे, निरन्तरं आयोजनीयानि।
अन्ते गङ्गासभाध्यक्षः, कुलपतिः, कुलसचिवः, कोषाध्यक्षः च सर्वान् कवीन् स्मृतिचिह्नैः सम्मानितवन्तः।
कुलसचिवः दिनेशकुमारः कृतज्ञतां ज्ञापयन् अवदत् यत्—विश्वविद्यालये साहित्यिकक्रियाकलापानां संवर्धनाय सर्वे प्रयत्नाः क्रियन्ते, येन छात्राणां बौद्धिकविकासः सम्यक् भवेत्। सः कार्यक्रमस्य सफलसम्पादनाय सर्वेभ्यः धन्यवादान् अपि प्रकटितवान्।
अस्मिन् अवसरे प्रो.मोहनचन्द्रबलोदी, प्रो.दिनेशचमोला, प्रो.बिन्दुमती-द्विवेदी, डॉ. कञ्चनतिवारी, डॉ. दिनेशचन्द्रपाण्डेय:, डॉ. विनयसेठी, डॉ. मीनाक्षीसिंहरावत:, सागरखेमरिया इत्यादयः बहवः विद्वांसः, श्रोतारः, गङ्गाभक्ताः, सामाजिकाः, छात्राः च बहुसंख्यया उपस्थिताः आसन्।