तमिल्नाडु-राज्यस्य कल्पक्कम्-नगरे स्वदेशीयरूपेण परिकल्पितं निर्मितं च प्रोटोटैप्-फ़ास्ट्-ब्रीडर्-रियाक्टर् (पी. एफ्. बी. ओर्.) इति रुपेण भारतं स्वस्य परमाणु ऊर्जा-कार्यक्रमे प्रमुखं सोपानं प्राप्नोत् । प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्याः ऐतिहासिकोपलब्धेः प्रशंसा कृता। सामाजिक-प्रसार-माध्यमे श्रीमोदी अवदत् यत्, भारतम् स्वस्य नागरिक-परमाणु-यात्रायां निर्णायकं स्थानं सम्प्राप्य, त्रि-चरणीय-परमाणु-कार्यक्रमस्य द्वितीये चरणे प्रगतिं करोति। क्षणोऽयं भारताय गौरवपूर्णः अस्तीति ब्रूवन्, श्रीमोदी परियोजनायां संलग्नान् वैज्ञानिकान् अभियन्तृञ्च अभिनन्दयत्।











