पश्चिम-एशिया-संघर्षः

सम्पूर्ण पश्चिम-एशियादेशे संघर्षः इतोऽपि वर्धमानः अस्ति। इस्राएल-देशेन गतदिनेषु रात्रौ च इरान-देशस्य ऊर्जा-आधारित संरचनायाः उपरि आक्रमणं कृतम्। इस्राएल-देशेन इरान-देशस्य दक्षिण-पारस-वातीन्धन क्षेत्रम् असलुयेह-नगरे आक्रमणं कृतं, यत् देशस्य बृहत्तमं वातीन्धनक्षेत्रम् आसीत्। अनेन आक्रमणेन वैश्विक ऊर्जा-आपूर्तिषु प्रतिकारस्य, सम्भाव्यविक्षोभस्य च आशङ्काः उत्पद्यन्ते। वर्धमानस्य पश्चिम-एशिया-द्वन्द्वस्य मध्ये प्रमुखः वैश्विक नौवहनमार्गः प्रभावीरूपेण निरुद्धः एव अस्ति। इरान्-देशस्य सर्वोच्चनेतुः परमर्शदन अली अकबर् वेलयाती इत्यनेन उक्तं यत् प्रतिरोधपक्षः वाव्-अल्-मण्डेब-जलसंधिं लक्ष्यीकुर्यात्, येन वैश्विक ऊर्जा, व्यापारः च एकेन सङ्केतेन बाधिताः भविष्यन्ति। बाव्-अल्-मण्डेव्-जलसंधिः रक्तसमुद्रं अदन्-खात्या सह संयोजयति, अलाण्टिक्-हिन्दमहासागरस्य भूमध्यसागरस्य च मध्ये नौवहनस्य प्रमुखं चोक् इति स्थानं वर्तते।
इरान-देशेन सञ्चेतितं यत् यदि देशस्य नागरिकाः पुनः आक्रम्यन्ते तर्हि अधिक-विनाशकारि-प्रतिकारः भविष्यगतदिनेषु रात्रौ चति। अमेरिका-देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सञ्चेतितं, यत् यदि ईरान्-देशः होर्मुज्-जलसंधिं पुनः उद्घाटयितुं तस्य समयसीमायाः पालनं न करिष्यति तर्हि तस्य सेतवः ऊर्जा-केन्द्राणि च नष्टानि भविष्यन्ति इति अस्याः सञ्चेतानायाः अनन्तरं एषा पूर्वसूचना प्रदत्ता। अपरपक्षे ईरान्-देशस्य राजधान्यां तेहरान नगरे अनेकानि वायु-आक्रमणानि जातानि । विस्फोटाक्रमणेषु अनेकाः जनाः मृताः।