पञ्च राज्याणां विधानसभा-निर्वाचनं

विभिन्नानां राजनैतिकदलानां प्रमुखाः नेतारः पञ्च राज्याणां मतदातृन् आक्रष्टुम् अन्तिमं प्रयासं कुर्वन्तः सन्ति, यतः असम-केरलम् द्वयोः राज्ययोः तथा पुदुचेरी केन्द्रशासितप्रदेशे च विधानसभा-निर्वाचनस्य अस्य मासस्य नवमे दिनाङ्के मतदानं योजनाकृताः आसीत्। असम-राज्ये षड्विंशत्यधिकैकशतासनेषु, केरलम्-राज्ये चत्वारिंशोत्तरैकशतासनेषु, पुदुचेरी-राज्ये त्रिंशत् आसनेषु एकस्मिन् एव चरणे मतदानं योजनाकृताः । भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्रमोदी च आत्मविश्वासं प्रकटितवान् यत् भारतीय जनता पार्टीति दलं असम-राज्ये निरन्तरं तृतीयवारं सर्वकारस्य निर्माणं करिष्यति। असम-राज्यस्य वारपेटा-नगरे निर्वाचनसमारोहं सम्बोधयन् श्रीमोदी अवदत् यत् देशस्य विकासाय, आत्मनिर्भरकरणाय च दलस्य संकल्पः अस्ति। सः अवदत् यत् विगतदशवर्षाणि असम-राज्ये शान्त्या समृद्ध्या च चिह्नितानि सन्ति। तेनोदीरितं यत् अनेन दशकेन असुविधया असुरक्षया समाह्वानैः च सह राज्यं दूरं कर्तुं साहाय्यं कृतम्। सः अवदत् यत् आगामिषु वर्षेषु असम-राज्यस्य समृद्धिः, स्वावलंबनार्थ तस्य यात्राः शक्तयः च इतोऽपि विस्तारिताः भविष्यन्ति। असम-राज्ये मूलसौकर्याभिवृद्धिं प्रकाशयन् प्रधानमन्त्री अवदत् यत् राज्ये संवर्धितः सम्पर्कः पर्यटनक्षेत्रं सकारात्मकरूपेण प्रभावयति, येन समग्रार्थव्यवस्थायाः लाभः अभवत्। काङ्ग्रेस-दलस्य वरिष्ठः नेता तथा लोकसभायां विपक्षस्य नेता राहुलगान्धी पुदुचेरी-राज्यस्य लास्पेट्-नगरे सार्वजनिकसभां सम्बोधितवान्। पुदुचेरी-राज्यं पूर्णराज्यम्य अधिकारं प्रदातुं काङ्ग्रेस्-दलस्य प्रतिबद्धतां राहुलेन पुनः दृढीकृतम्।
केरलं-राज्ये, प्रचारस्य अन्तिमदिने, राज्यस्य सर्वेषु चत्वारिंशोत्तरैकशतासनानां विविधराजनैतिकदलानां वरिष्ठ नेतृभिः सह उपवेशनं, पथ प्रदर्शनं च अकरोत् । भाजपेति दलस्य वरिष्ठः नेता तथा केन्द्रीय गृह मन्त्री अमितशाहः हरिपद-नगरे पथ प्रदर्शने भागम् अगृह्णात्। वरिष्ठः सी. पी. एम्. नेता तथा केरलस्य मुख्यमन्त्री पिनाराई विजयन् वर्यः स्वसर्वकारस्य प्रगतिपत्र प्रसारितवान्। सी. पी. एम्. दलस्य सामान्यसचिवः एम्. ए. बेबी कोल्लम्-जनपदे कार्यक्रमेषु भागं अगृह्णात् ।
एतदतिरिच्य, तमिलनाडु-राज्ये विधानसभानिर्वाचनार्थं, पश्चिमवङ्गप्रदेशे प्रथम चरणीय निर्वाचनार्थं च नामाङ्कन प्रक्रिया सम्पूर्ण, तत्परं नामाङ्कन-पत्राणां परीक्षणं अभवत् । प्रत्याशिनः अस्य मासस्य नवम दिनाङ्कात् प्राक् नामाङ्कनं प्रत्यावर्तितुं शक्नुवन्ति। तमिलनाडुराज्ये चतुःत्रिंशोत्तर द्विशतासनेषु, पश्चिमब‌ङ्गालराज्ये द्वि पञ्चाशदधिकैकशतासनेषु च अस्मिन् मासे त्रयोविंशति दिनाङ्के मतदानं भविष्यति। अस्मिन् मासे ऊनविंशति दिनाङ्के पश्चिमव‌ङ्गालराज्ये द्वितीय-चरणस्य मतदाने द्विचत्वारिंशदधिकैकशतासनानि समाविष्टानि सन्ति।