अक्षयतृतीया—अक्षयपुण्यपरम्परायाः प्रतीकः

सनातनधर्मपरम्परायां अक्षयतृतीया इति तिथि परमपावनत्वेन प्रतिष्ठिता अस्ति। “आखा-तीज” इत्यपि नाम्ना प्रख्याता एषा तिथि मानवजीवने धर्म, सेवा, सदाचाराणां च अक्षयस्वरूपं प्रकाशयति। “अक्षय” इत्यस्य अभिप्रायः—यस्य कदापि क्षयः न भवति, यत् अनन्तं नित्यं च अस्ति। अतः अस्मिन् दिने कृतानि पुण्यकर्माणि अनन्तफलप्रदानि भवन्ति इति श्रद्धा परम्परया आगता।
वैशाखमासस्य शुक्लपक्षे तृतीयातिथौ एषा पावनी तिथि प्रतिवर्षं समायाति। २०२६ संवत्सरे एषा तिथि १९ अप्रैल दिनाङ्के प्रातः १०:४९ वादने आरभ्य २० अप्रैल प्रातः ७:२७ पर्यन्तं प्रवर्तते। उदयातिथेः प्रमाणेन १९ अप्रैल दिने एव अस्याः उत्सवः सम्यगाचर्यते। एषा तिथि विशेषतया स्वर्णक्रयस्य, नूतनारम्भस्य च अत्यन्तं शुभा मन्यते।
पौराणिकदृष्ट्या अपि अस्याः तिथेः महत्त्वं विशिष्टम् अस्ति। युगपरिवर्तनस्य एषा साक्षिणी मन्यते, सतयुगस्य समाप्तिः, त्रेतायुगस्य आरम्भः च अस्मिन्नेव दिने अभवत् इति कथ्यते। भगवान् विष्णोः षष्ठावतारः परशुरामः अस्मिन्नेव दिने अवतीर्णः। भगीरथस्य घोरतपसा प्रसन्ना भागीरथी गङ्गा स्वर्गलोकात् पृथिवीं प्रति अवतीर्णा, येन समस्तजीवानां कल्याणमार्गः प्रशस्तः अभवत्। महाभारतकाले पाण्डवानां वनवासे सूर्यदेवेन प्रदत्तं अक्षयपात्रं अपि अस्याः तिथेः महिमानं दर्शयति। श्रीकृष्णेन सुदाम्नः दारिद्र्यनाशः अपि अस्मिन्नेव दिने कृतः इति श्रद्धा वर्तते।
अस्याः तिथेः अन्यत् वैशिष्ट्यम् अस्ति यत् एषा “अबूझमुहूर्त” इति विख्याता। अस्मिन् दिने कस्यचित् विशेषमुहूर्तस्य अन्वेषणं न आवश्यकम्; विवाहः, गृहप्रवेशः, भूमिपूजनम्, व्यापारारम्भः, वाहनक्रयः इत्यादयः सर्वे कार्याः स्वयमेव शुभफलप्रदाः भवन्ति।
दानस्य अस्मिन् दिने विशेषमहत्त्वं प्रतिपादितम्। शास्त्रवचनम् अस्ति—“अक्षयतृतीयायां दानं पुण्यं च न क्षीयते” इति। अतः अन्नदानं, जलदानं, वस्त्रदानं, गौदानं, पादुकादानं च अत्यन्तं पुण्यप्रदम्। विशेषतः ग्रीष्मऋतौ तृषितानां जनानां कृते शीतलजलदानं, सत्तू-गुडदानं च महाफलप्रदं मन्यते। अन्नदानं नारायणसेवायाः तुल्यं इति परम्परा दृढा अस्ति।
अस्याः पावनतिथेः आचरणे प्रातः ब्रह्ममुहूर्ते उत्थाय शुद्धस्नानं कृत्वा संकल्पः विधीयते। ततः भगवान् विष्णोः लक्ष्मीनारायणरूपस्य तथा कुबेरदेवस्य श्रद्धया पूजनं क्रियते। पीतवस्त्रैः, पुष्पैः, चन्दनेन, धूपदीपैः च अर्चना विधीयते। सत्तू, ककड़ी, चणकदालः, फलानि च नैवेद्यरूपेण समर्प्यन्ते। “ॐ नमो भगवते वासुदेवाय” इति मन्त्रस्य जपः अपि पुण्यवर्धकः।
एवं अक्षयतृतीया केवलं लौकिकसमृद्धेः प्रतीकः नास्ति, अपितु सत्कर्मणां नित्यफलप्राप्तेः स्मारकम् अस्ति। सुवर्णक्रयः यद्यपि ऐश्वर्यस्य सूचकः, तथापि दीनसेवा, अन्नदानं, करुणाभावः च एव तस्याः समृद्धेः वास्तविकम् अक्षयत्वं ददाति।