इण्डोनेशियासंसदि प्रधानमन्त्रिणा बीजूपटनायकस्य प्रशंसा — “तेन भारतम् इण्डोनेशियादेशं च अधिकं समीपम् आनयत्”

जकार्ता। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी-महोदयः मङ्गलवासरे इण्डोनेशियादेशस्य संसदि सम्बोधनं कुर्वन् ओडिशाराज्यस्य भूतपूर्वमुख्यमन्त्रिणः बीजूपटनायक-महोदयस्य ऐतिहासिकयोगदानस्य मुक्तकण्ठेन प्रशंसाम् अकरोत्। इण्डोनेशियादेशस्य स्वातन्त्र्यसङ्ग्रामकाले तेन कृतं साहसिककार्यं भारत-इण्डोनेशिययोः मैत्रीसम्बन्धान् अधिकं सुदृढीकृतवान् इति प्रधानमन्त्री अवदत्।
स्वभाषणे प्रधानमन्त्री स्मारितवान् यत् बीजूपटनायकः कुशलः वैमानिकः आसीत्। इण्डोनेशियायाः स्वातन्त्र्यसङ्ग्रामसमये तेन डच्-नियन्त्रितात् जावा-द्वीपात् तत्रत्यौ तत्कालीनौ प्रधानमन्त्री सुतन् शह्रीर् तथा उपराष्ट्रपतिः मोहम्मद् हट्टा सुरक्षितरूपेण भारतम् आनीतौ। एषः साहसपूर्णः कार्यः उभयदेशयोः सम्बन्धान् अधिकं निकटान् अकरोत् इति सः उक्तवान्।
प्रधानमन्त्री अवदत्, “इण्डोनेशियादेशः १९४५ तमे वर्षे, भारतं च १९४७ तमे वर्षे स्वातन्त्र्यम् अलभत। स्वाधीनराष्ट्रत्वस्य प्रश्ने भारतम् संयुक्तराष्ट्रसङ्घे इण्डोनेशियादेशस्य स्वातन्त्र्यसङ्ग्रामस्य दृढसमर्थकः आसीत्। तस्मिन् काले आदरणीयेन बीजूपटनायकेन यत् साहसिकं कार्यं कृतं, तेन भारतम् इण्डोनेशियादेशं च अधिकं समीपम् आनयत्।”
प्रधानमन्त्री उभयदेशयोः प्राचीनसमुद्रीसम्बन्धानपि उल्लिखितवान्। सः अवदत् यत् भारतस्य इण्डोनेशियादेशस्य च कृते समुद्रः कदापि दूरत्वस्य प्रतीकः नासीत्। सः सदा उभयोः राष्ट्रयोः मध्ये सेतुरूपेण कार्यं कृतवान्, भविष्येऽपि उभयदेशयोः सहकार्यस्य प्रमुखाधारः भविष्यति।
प्रधानमन्त्री पुनरुक्तवान् यत् भारतस्य इण्डोनेशियादेशस्य च ऐतिहासिक-सांस्कृतिक-आर्थिकसम्बन्धाः अत्यन्तं प्राचीनाः सन्ति। परस्परविश्वासः, मैत्री तथा सहयोगभावना एव उभयदेशयोः सम्बन्धानां मूलाधारः अस्ति। एतादृशैः ऐतिहासिकैः प्रसङ्गैः प्रेरितौ उभौ देशौ भविष्ये अपि विविधेषु क्षेत्रेषु सहकार्यं अधिकं विस्तारयिष्यतः इति सः विश्वासं व्यक्तवान्। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् बीजूपटनायक-महोदयेन इण्डोनेशियादेशस्य तत्कालीनौ प्रधानमन्त्री सुतन् शह्रीर् तथा उपराष्ट्रपतिः मोहम्मद् हट्टा सुरक्षितरूपेण भारतम् आनेतुं साहसपूर्णं अभियानं सम्पन्नम्। तस्मिन् समये डच्-सैन्येन इण्डोनेशियादेशस्य अनेकाः नेतारः निगृहीताः आसन् तथा देशात् निर्गमनस्य सर्वेषु मार्गेषु कठोरः सुरक्षा-प्रबन्धः स्थापितः आसीत्। अतः तत् अभियानम् अत्यन्तं संकटपूर्णं मन्यते स्म।