प्रधानमन्त्री नरेन्द्रमोदी इण्डोनेशियादेशस्य भ्रमणम् अकरोत्।

जकार्ता। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी त्रिराष्ट्रीयविदेशयात्रायाः आरम्भे इण्डोनेशियादेशम् अभ्यगच्छत्। अनेन तस्य त्रिराष्ट्रीयविदेशयात्रायाः शुभारम्भः अभवत्।
इण्डोनेशियादेशेन प्रधानमन्त्रिणः भव्यं स्वागतं कृतम्। विशेषसम्मानस्य प्रतीकरूपेण इण्डोनेशियावायुसैनायाः युद्धविमानानि तस्य विमानं देशस्य वायुप्रदेशे प्रवेशात् आरभ्य जकार्तानगरपर्यन्तम् अनुरक्षितवन्ति।
जकार्ताविमानपत्तने इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवो सुबियान्तो-महोदयः प्रधानमन्त्रिणं स्वयम् अभ्यनन्दत्। आगमनानन्तरं प्रधानमन्त्रिणः सम्मानार्थं आयोजितं सांस्कृतिककार्यक्रमम् अपि सः अपश्यत्।
उल्लेखनीयं यत् इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवो सुबियान्तो २०२५ तमवर्षस्य जनवरी-मासस्य २६ दिनाङ्के भारतस्य गणतन्त्रदिवससमारोहे मुख्यातिथिरूपेण भारतम् आगतवान् आसीत्। एषा यात्रा उभयदेशयोः निरन्तरवर्धमानस्य मैत्रीसम्बन्धस्य द्योतिका मन्यते।
प्रस्थानात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भारतस्य इण्डोनेशियादेशस्य च सम्बन्धाः दीर्घकालिकाः सुदृढाश्च सन्ति। अस्याः यात्रायाः माध्यमेन व्यापारे, अर्थव्यवस्थायां, रक्षणे, संस्कृतौ तथा अन्येषु विविधक्षेत्रेषु द्विपक्षीयसहकार्यं अधिकं सुदृढं भविष्यतीति सः विश्वासं व्यक्तवान्।