कस्मिंश्चित् सुन्दरसरसि त्रयः मत्स्याः निवसन्ति स्म। ते बहुकालात् तस्मिन् एव सरसि वसन्तः आसन्। ते परस्परं परममित्राणि आसन्। प्रतिदिनं ते सह क्रीडन्ति, जलमध्ये विचरन्ति, आनन्देन समयं यापयन्ति स्म। सरसः एकः शान्तः प्रदेशः तेषां अत्यन्तप्रियः आसीत्। प्रतिदिनं ते तत्र गत्वा क्रीडां कुर्वन्ति स्म।
तेषु प्रथमः मत्स्यः अत्यन्तं बुद्धिमान् आसीत्। सः सर्वदा सावधानः भवति स्म। कस्यापि कार्यस्य पूर्वं सः सम्यक् चिन्तयति स्म। द्वितीयः मत्स्यः प्रथममत्स्यवत् नातिबुद्धिमान् आसीत्, किन्तु सः स्वस्य सीमां जानाति स्म। यदा प्रथमः मत्स्यः किमपि हितकरम् उपदिशति स्म, तदा सः तत् श्रद्धया शृणोति स्म तथा तदनुसारं आचरति स्म। तृतीयः मत्स्यः तु हठी आसीत्। स्वमतमेव सर्वदा श्रेष्ठम् इति मन्यते स्म। परिवर्तनम् अपि तस्मै न रोचते स्म। अन्येषां वचनं श्रोतुं सः न इच्छति स्म।
एकस्मिन् दिने त्रयः अपि मत्स्याः स्वस्य प्रियस्थाने क्रीडितुं गतवन्तः। तस्मिन् समये प्रथमः मत्स्यः सरसः तीरे एकं धीवरं अपश्यत्। तस्य हस्ते विशालं जालम् आसीत्। धीवरः मत्स्यान् ग्रहीतुं सज्जः आसीत्। एतत् दृष्ट्वा बुद्धिमान् मत्स्यः अवगच्छत् यत् अद्य अस्माभिः अस्मिन् स्थाने न गन्तव्यम्। अत्र महान् संकटः अस्ति।
सः शीघ्रं स्वमित्रयोः समीपं गत्वा अवदत्- “मित्रे! अद्य अस्माभिः अस्मात् प्रदेशात् दूरं गन्तव्यम्। पश्यत, तत्र एकः धीवरः जालेन सह तिष्ठति। यदि वयं अत्र गमिष्यामः, तर्हि सः अस्मान् गृहीत्वा नयिष्यति। सावधानतैव अस्माकं रक्षणं करिष्यति।”
द्वितीयः मत्स्यः प्रथममत्स्यस्य वचनं श्रुत्वा अवदत्- “त्वं यथार्थं वदसि। त्वं सर्वदा सम्यक् चिन्तयसि। अहम् अपि त्वया सह अन्यं सुरक्षितं स्थानं गमिष्यामि।”
किन्तु तृतीयः मत्स्यः अहङ्कारेण अवदत्- “अहं प्रतिदिनम् अत्र एव आगच्छामि। अद्य किमर्थं न आगच्छेयम्? केवलं कञ्चनं धीवरं दृष्ट्वा भयभीतः भवितुम् अहं न इच्छामि। भवद्भ्यां यद्यत्र गन्तुं न रोचते, तर्हि मा आगच्छतम्। अहं तु अत्र एव क्रीडिष्यामि। मम किमपि न भविष्यति।”
प्रथमः मत्स्यः पुनः तम् उपदिशत्- “मित्र! समयानुसारं निर्णयः कर्तव्यः। यत्र संकटम् अस्ति, तत्र गमनं न उचितम्। बुद्धिमान् जनः परिस्थितिं ज्ञात्वा स्वव्यवहारं परिवर्तयति।”
द्वितीयः मत्स्यः अपि तम् अवदत्- “भवतः हितमेव वयं चिन्तयावः। कृपया अस्माकं वचनं शृणु।”
परन्तु तृतीयः मत्स्यः तयोः वचनं न अशृणोत्। सः हठेन तस्मिन् एव प्रदेशे अगच्छत्। तत्र किञ्चित्कालं क्रीडन् आसीत्। तावत् धीवरः जालं जलमध्ये अक्षिपत्। जाले तृतीयः मत्स्यः बद्धः अभवत्। बहु प्रयत्नम् अकरोत्, किन्तु मुक्तः न अभवत्। अन्ते धीवरः तम् गृहीत्वा स्वगृहं नीतवान्।
अपरौ मत्स्यौ दूरात् एतत् दृश्य अत्यन्तं दुःखितौ अभवताम्। तौ अवदताम्- “यदि अस्माकं मित्रः हितोपदेशं श्रोतुम् इच्छेत्, तर्हि अद्य एषा विपत्तिः न अभविष्यत्।”
एतां घटनां दृष्ट्वा सरसि निवसन्तः अन्ये मत्स्याः अपि सावधानाः अभवन्। ते अवगच्छन् यत् संकटसमये बुद्ध्या सह निर्णयः कर्तव्यः। केवलं हठेन अथवा अहङ्कारेण कृतः निर्णयः अनर्थाय भवति।
नीतिः- बुद्धिः, सावधानी, समयानुकूलः निर्णयः तथा परिवर्तनस्य स्वीकारः जीवने सफलतायै रक्षणाय च अत्यन्तम् आवश्यकाः सन्ति। हठः, अहङ्कारः, हितोपदेशस्य अवमाननं च अन्ते हानिमेव जनयन्ति।











