अयोध्या। श्रीराममन्दिरे प्राप्तदानद्रव्यचौर्यस्य आरोपानन्तरं श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य महत्त्वपूर्णा सभा सम्पन्ना। प्रायः त्रिघण्टापर्यन्तं प्रवृत्ता अस्याः सभायाः अन्ते न्यासस्य महासचिवस्य चम्पतराय-महोदयस्य तथा सदस्यस्य अनिलमिश्र-महोदयस्य त्यागपत्रे स्वीकृते। तयोः स्थाने दानचौर्यप्रकरणे प्राथमिकी (एफ्.आई.आर्.) दायरयितारं कृष्णमोहन-महोदयं न्यासस्य नूतनमहासचिवरूपेण नियुक्तवन्तः।
प्रथमवारं न्यासस्य सभा श्रीराममन्दिरपरिसरे एव अभवत्। पूर्वं सर्वाः सभाः अयोध्याधाम्नः मणिरामदासच्छावन्यां आयोज्यन्ते स्म। दानचौर्यप्रकरणस्य संवेदनशीलतां गोपनीयतां च दृष्ट्वा एषा सभा मन्दिरपरिसरे आयोजिता इति ज्ञायते।
सभायां दानचौर्यविषयः प्रमुखचर्चाविषयः आसीत्। अनेकैः न्याससदस्यैः उक्तं यत् अस्मात् प्रकरणात् न्यासस्य, श्रीरामभक्तानां तथा समग्रजनमानसस्य भावनाः आहताः सन्ति तथा देशव्यापि विपरीतः सन्देशः प्रसृतः। न्यासेन उत्तरप्रदेशसर्वकारेण गठितायाः विशेषान्वेषणदलस्य (एस्.आई.टी.) अन्वेषणे विश्वासः अपि व्यक्तः।
सभायाः पूर्वं न्यासाध्यक्षः महन्तः नृत्यगोपालदास-महोदयः स्पष्टम् उक्तवान्— “यः पापेन सम्बद्धः अस्ति, सः अवश्यमेव दण्डं प्राप्स्यति।” तदनन्तरं सदस्यैः चम्पतरायस्य अनिलमिश्रस्य च विषये विस्तृतः विचारः कृतः। सूत्राणां अनुसारं बहवः सदस्याः तयोः कार्यप्रणाल्याः विषये असन्तोषम् व्यक्तवन्तः। अन्ततः तयोः त्यागपत्रे स्वीकृते।
न्यासस्य कोषाध्यक्षः स्वामी गोविन्ददेवगिरिः पत्रकारसम्मेलने उक्तवान् यत् चम्पतरायस्य अनिलमिश्रस्य च त्यागपत्रे स्वीकृते स्तः, कृष्णमोहनः च न्यासस्य नूतनमहासचिवः नियुक्तः।
दानचौर्यप्रकरणे अपहृतानि इति आरोपितानि बहुमूल्यानि द्रव्याणि अपि पत्रकारसम्मेलनमण्डपे प्रदर्शितानि। तेषु सुवर्णनिर्मिता रामायणग्रन्थः, श्रीरामस्य चरणचिह्नानि, हाराः, कागभुशुण्डिविग्रहः इत्यादयः प्रमुखानि आसन्।
अस्यां महत्त्वपूर्णायां सभायां न्यासस्य चतुर्दशसदस्येषु नव सदस्याः प्रत्यक्षरूपेण उपस्थिताः आसन्। केन्द्रराज्यसर्वकारयोः नामनिर्दिष्टाः सदस्याः आभासीयमाध्यमेन सभायां सहभागी अभवन्। प्रत्यक्षरूपेण उपस्थितेषु महन्तः नृत्यगोपालदासः, स्वामी गोविन्ददेवगिरिः, कृष्णमोहनः, दिनेन्द्रदासः, शङ्कराचार्यः स्वामी वासुदेवानन्दसरस्वती, परमानन्दगिरिमहाराजः तथा स्वामी विश्वप्रपन्नतीर्थमहाराजः प्रमुखाः आसन्। चम्पतरायः तथा अरविन्दमिश्रः सभायाम् अनुपस्थितौ आस्ताम्।
एतस्मिन् मध्ये प्रयागराजे आयोजिते कार्यक्रमे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् “भारतस्य आत्मा सनातनधर्मे प्रतिष्ठिता अस्ति, श्रीरामः भारतस्य आत्मनः मूलाधारः अस्ति।” सः पुनरुक्तवान्— “रामः एव राष्ट्रम्।” अद्य दृश्यते भव्यः श्रीराममन्दिरः अयोध्यायाश्च विकासः अशोकसिंघलस्य दृढसङ्कल्पस्य फलम् इति सः निरूपितवान्। राममन्दिरान्दोलनस्य स्मरणं कुर्वन् सः उक्तवान् यत् तस्मिन् काले “रामलला, वयं आगमिष्यामः; मन्दिरं तत्रैव निर्मास्यामः” इति घोषः राष्ट्रव्यापी अभवत् तथा युवजनानां मध्ये “मन्दिरस्य कार्ये या युवावस्था न प्रयुज्यते, सा निष्फला” इति भावनापि प्रबलतया आसीत्।
न्यासस्य सभायां सदस्यैः दानचौर्यप्रकरणे जनमानसे प्रसृतानां भ्रान्तीनां निवारणस्य आवश्यकता अपि प्रतिपादिता। अस्य घटनाक्रमस्य कारणात् श्रीरामभक्तेषु जनसामान्ये च उत्पन्नां चिन्तां दूरकर्तुं पारदर्शकान्वेषणस्य, दोषिणां विरुद्धे कठोरकार्यवाह्याः तथा न्यासस्य विश्वसनीयतायाः पुनःस्थापनस्य आवश्यकता सर्वसम्मत्याऽभ्युपगता।











