“सत्येन एव जीवनं शोभते, असत्येन न किंचित्।”
तस्य जीवनं दर्शयति यत् धर्मः केवलं ग्रन्थेषु न, अपि तु आचरणे एव वर्तते।
पुरातने भारतवर्षे एकः महान् राजा आसीत् – हरिश्चन्द्रः नाम। सः इक्ष्वाकुवंशे जातः, सत्यव्रतस्य प्रतिमानः आसीत्। तस्य राज्यं समृद्धं, प्रजाः सुखिनः, सर्वत्र धर्मपालनं च आसीत्। सः सदा सत्ये स्थित्वा शासनं करोत्।
एकदा महर्षिः विश्वामित्रः तस्य सत्यनिष्ठां परीक्षितुम् अचिन्तयत्। सः स्वप्ने राजानं दृष्ट्वा दानं याचते स्म। प्रातःकाले ऋषिः राजद्वारं आगत्य उवाच —
“राजन्, त्वं सत्यव्रती असि। मम याचना अस्ति — यज्ञार्थं राज्यम् आवश्यं दास्यसि।”
राजा हरिश्चन्द्रः तत्कालमेव प्रतिज्ञां कृत्वा तद्राज्यं दत्तवान्। सः स्वपत्नी शैव्या पुत्रं रोहिताश्चं च सहितः वनं गतः। तत्र तस्य जीवनं अत्यन्तं कठिनं जातम्।
वनं गत्वा तेन ज्ञातं यत् विश्वामित्रः स्वप्नप्रमाणेन दानं स्वीकृतवान्, किन्तु दानसमये दक्षिणा अपि देयाः इति वदति। हरिश्चन्द्रः अवदत् —
“धर्मो मे प्रमाणम्। यदि दक्षिणा आवश्यकं, तत् अपि दास्यामि।”
ऋषिः तं वाराणसीं प्रेषयामास यत् तत्र द्रव्यं लभेत। किन्तु द्रव्याभावात् सः स्वपत्न्या सहितः दासत्वं स्वीकृतवान्। शैव्या एका ब्राह्मणपत्न्याः दासी अभवत्, राजा च श्मशाने शवदाहकर्त्ता अभवत्।
एकदा तस्य पुत्रः रोगेण मृतः। रात्रौ पत्न्या सहितः सः शवदाहस्थले उपस्थातः। शैव्या रोदन्ती अवदत् —
“आर्य, अस्य दहनं करोतु।”
राजा हरिश्चन्द्रः कर्तव्यनिष्ठया उत्तरं दत्तवान् —
“अहं नियमपालकः अस्मि। शुल्कं विना दाहं न कर्तुं शक्यते।”
पत्न्याः वचनं श्रुत्वा अपि सः सत्यं न त्यक्तवान्। तदा आकाशवाणी अभवत् —
“राजन्! त्वं सत्ये स्थितः। तव परीक्षा समाप्ता। ऋषिः विश्वामित्रः तव धैर्यं दृष्ट्वा प्रसन्नः अभवत्।”
तत्क्षणे देवगणाः स्वर्गात् अवतीर्णाः। मृतः पुत्रः पुनर्जीवितः जातः। ऋषिः विश्वामित्रः उक्तवान् —
“त्वं सत्यस्य प्रतिमानः। लोकाः त्वां स्मरिष्यन्ति यावत् सूर्यः अस्ति।”
ततः हरिश्चन्द्रः पुनः स्वराज्ये प्रत्यावृत्तः। तस्य शासनकाले धर्मपालनं, दया, न्यायः, करुणा च नित्यं प्रवहन्ति स्म ।
सत्यं परमं बलम्।
यः सत्ये न विचलति, स एव अमरः भवति।
धनं, राज्यं, यशः अपि नित्यं नास्ति, किन्तु सत्यनिष्ठा सर्वदा अमरत्वं ददाति।











